________________
श्रीधन्य
चरित्रम्
॥ ४५ ॥
Jain Education Intera
वाक्यमुक्तम्' ? । पङ्कप्रियेण लोकभाषया एकश्चतुरश्चरणात्मको दोधक उक्तः । तद्यथा -
१ कालिं जि बोरां विंणती, आज न जाणे खक्ख । पुणरवि अडवि करिसुं घर, पिं न सहु एह अणक्ख इति श्रुत्वा नृपो दध्यौ-‘मया दत्ताधिपत्याऽसौ प्रिया विस्मृतपूर्वदशा यद्येवंविधां सौख्यलीलां न सृजेत् तदा मम प्रसन्नताया | वस्तुतः किं फलं लब्धम् ? । वर्षति मेघे चेद् वसुमती अङ्कुरपूरवती न जाता तदा पर्जन्यस्य को महिमा ? । इयं लीलाधारिणी | देवी सर्वथा दण्डं नार्हति । एष पङ्कप्रियस्य व्याधिस्तु अप्रतिकारः, अत एष पङ्कप्रियः सुखेनैव वने यातु परन्तु एतद्वचनमात्रापराधेन राज्ञी तिरस्करणीया न भवति' । इति विचिन्त्य राज्ञा पङ्कप्रियो विसृष्टः सन् पुनः कान्तारमागमत् । प्राग्वत् सरस्तीरे कुटिरं कृत्वा चिरं स्थितः ।
एवं क्रियत्यपि काले गतेऽन्यदा तस्मिन् वने रात्रौ भूरिभयङ्करान् व्याघ्रबूत्कारान् श्रुत्वा भयभ्रान्तशरीरः सङ्कुचिताङ्गोऽनन्यगतिकः पङ्कप्रियो नरकोप स्थागसदृश्यां खातभूमिसमुत्थायामश्मनः कुम्भिकायां शीघ्रं शीघ्रं प्रविश्य मरणभयाद् यद्वा तद्वा अङ्गानि इतस्ततः प्रक्षिप्य तत्र रात्रिमजीगमत् । प्रभाते संबाधवक्त्रतया आकुञ्चनप्रसारण रहितानि जडत्वं प्राप्तान्यङ्गानि वालयितुमक्षमो गर्तातो निर्यातुं न शक्नोति । अङ्गप्रत्यङ्गमोटनात् तीव्रतरवेदनवशाद् मरणदशां प्राप्तः सन् इमे गाथे द्वयोः पार्श्वयोर्लिखित्वा मृतः । | अथ च वनगमनप्राप्तोदन्ताः पुत्रास्तत्र वने प्राप्ता मुहुरन्विष्यन्तो मृतं पितरं ददृशुः, इमे च द्वे गाथे अवीवचन् ।
१. कल्ये या बदराणि चिन्तवती, अद्य न जानाति खक्खा । पुनरप्यटव्यां करिष्ये गृहं अपि न सहेऽदोनारव्येयम् ॥१॥ श्रेति । तस्य तानि' इत्यधिकः प्र. ।
For Personal & Private Use Only
द्वितीयः
पल्लवः
॥४५॥
www.jainelibrary.org