SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ श्रीधन्यचरित्रम् | द्वितीयः पल्लवः ॥४४॥ दण्यनीयः' । इत्युक्त्वा विरते भूपतौ पृष्ठे सामन्त-सचिवादयश्चतुरङ्गचमूयुता दक्षिणावर्त्तशङ्खस्य पृष्ठे सामान्यशङ्का इवागमन्। राजानं च दृष्ट्वा हर्षितहृदया वुभूवुः । ततश्च पङ्कप्रियेण सहाऽश्वारूढो नृपश्चतुरङ्गचमूवृतः स्वपुरं प्रति प्रस्थितः । मार्गे गच्छन् राजा नगरोपवनेऽतिरूपवतीमेकां कन्यकां कुब्जबदरीवृक्षेभ्यो बदरावलिं चिन्तवतीं दृष्ट्वा तां प्रति इत्युवाच-'हे सुभु! त्वं कस्य सुता? | किं तव नाम ? का जातिस्तव' ? । इति राज्ञोक्तं श्रुत्वा साऽऽह-'हे स्वामिन् ! अहं खक्खाऽभिधाना कृषिकारकस्य पुत्र्यस्मि'। इति सुधामुचं तस्या वाचं कर्णपुटेन पीत्वा तद्रूपमोहितहृदयो भुपस्तामेव मनसि स्मरन् स्वसौधमगमत्। ततो मन्त्रिमुखेन तस्याः पितरं प्रज्ञाप्य स्वानुकूलं च कुलं कृत्वा तां कन्यां परिणीतवान् । तां च पट्टराज्ञापदमदात् यतः प्रियाजने किमप्यदेयं न भवति । अथ पङ्कप्रियोऽपि राज्ञा दत्तां सम्पदं निःशङ्कतया बुभुजे, यतः सम्पत्फलं हि त्याग भोगादि। अथ राज्ञा स्वनगरे इत्युद्घोषणा कारिता-'यः पङ्कप्रियकुम्भकारस्योग्रेऽसम्बद्धं वक्ष्यति स चौरदण्डेन मया दण्ड्यो भविष्यति, अतः स्वमनसि सम्प्रधार्य सरलं वक्तव्यम' । ततः प्रभृति पङ्कप्रियः सुखेन परिवसति । एवं सुखेन कालनिर्गमे वर्षान्ते एकस्मिन् दिने राजा पङ्कप्रियेण खक्खया पट्टदेव्या च सह नगराद् बही राजपाट्यां परिभ्रमति । पदे पदे विविधान् वृक्षान् निरीक्षमाणो एकस्मिन् स्थले बदरीवनं ददर्श ? ततो राजा राज्ञीमिति पप्रच्छ-'हे देवि ! अमी द्रुमाः के ? एषामभिधानं ब्रूहि' । ततः सा राज्ञी अतीव सुखमग्नतया पूर्वावस्थां न स्मरति । राज्यलीलाऽवगाढा राजानं प्रत्यूचे-'नाऽहं जानामि को वृक्षः, किं वाऽस्याऽभिधानं भविष्यति' ? । इति राजयुक्तं वाक्यं श्रुत्वा ईर्ष्याविसंस्थुलः पङ्कप्रियः शत्रुवद् दृढं मुष्टिभिर्निजं, मस्तकं कुट्टयामास । ततो राजा तं तथाविधं दृष्ट्वा परिजनं प्रति इत्युवाच- अरे ! ममाज्ञाध्वंसिना मरणेच्छुना केन ईर्ष्यापोषि वचोऽश्राव्यत' ? । इति राज्ञोक्तं श्रुत्वा परिजनेनोक्तम्-'हे स्वामिन् ! त्वदीयाज्ञाध्वंसिवचनं न केनाप्युक्तम् । तदा राज्ञा पङ्कप्रियः पृष्ट:-'केन तव शिरःस्फालनहेतुकं ॥४४॥ Education n ational For Personal & Private Use Only www.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy