________________
श्रीधन्यचरित्रम्
॥४३॥
निरोद्धुमहमशक्तः सन् व्रणधोरणिजर्जरं स्वमूर्द्धानमकुट्टयम् । ततोऽहं प्रतिदिनं लोकानां कटूवचनानि श्रुत्वा सहनाऽक्षमः स्वशिरः कुट्टनादतिदुःखितः पुत्रैर्भाषितः - 'हे तात ! परोत्कर्षवचनश्रवणाऽक्षमस्य तव जनसङ्कुले नगरे वसनमयुक्तम्, अतस्त्वं व स्थितिं कुरुष्व । यतो वनगहने मनुजाऽभावाद् ईर्ष्यासम्भवो न भवति, कारणानामभावे जातु कार्यं जायते किमु' ? । एवं पुत्रवचनं श्रुत्वा मयाप्यनुमतम् । ततः पुत्रैरस्मिन् वने खाद्यादिसामग्रीयुतां कुटीरचनां कृत्वा वासितः, अतोऽहमत्र सुखेन तिष्ठामि” । इति पङ्कप्रियवचो निशम्य कृपा कूपारमानसो दिव्यविक्रमोऽपि तदीयदुःखसङ्क्रान्त्या विव्यथे । ये बहुश्रुतास्ते पर दुःखंवार्ताश्रवणेन मनागार्त्ता भवन्ति, यथा समाश्रयवृत्ती कर्णो दुष्यता अक्ष्णा समं पट्टकव्यथां सहेते । इति तदुःखेन दुःखितो राजा मनसि तदुपकारं स्मरन् कृतज्ञजनशेखरः 'उद्धरिष्यामि' इति व्यचिन्तयत् । हि यस्माद् येन मस्तकात् ऋणमुत्तारितं तस्यापि प्रत्युपकारकरणं महत्यप्युपायकरणो सुदुष्करं, तर्हि सर्वोपकारिणः प्रत्युपकारकरणं कथं भवति ? । यतः शास्त्रे बहूनि दानानि सन्ति । तद्यथास्वर्णदानं धरादानं कन्यादानं रत्नदानमिति अनेकानि दानानि पृथिव्यां दीयन्ते परन्तु वेलादत्तस्यान्नदानस्य कोट्यंशेनापि नाऽर्धन्ति । यत उक्तश्च
" क्षुधाक्लीबस्य जीवस्य, पञ्च नश्यन्त्यसंशयम् । सुवासनेन्द्रियबलं, धर्मकृत्यं रतिः स्मृतिः”
अतः कृतभुक्त्युपकाराय कुंम्भकाराय अनर्गलां लक्ष्मीं दत्त्वा कृतज्ञभावं ज्ञापयामि, कथञ्चिदनृणीभावतां च यामि । इति ध्यात्वा नृपतिः कुम्भकारं प्रति प्राह-भो भद्र ! त्वं सुखेन मया सार्धं नगरान्तरमेहि, मद्दत्तावासे स्थित्वा मत्समीपस्थो दिष्ट्या | मदर्पितान् भोगान् भुङङ्क्ष्व । अथ तत्र निवसतस्तव यः कश्चिद् बुधोऽपि पौरजनस्तव श्रृण्वतोऽसम्बद्धं वक्ष्यति स मया चौरदण्डेन
Jain Education International
For Personal & Private Use Only
द्वितीयः
पल्लवः
॥४३॥
www.jainelibrary.org