SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ श्रीधन्य चरित्रम् ॥ ४२ ॥ यदि भगवदीया चित्तप्रसत्तिर्भवति तदा वयं विजने वने एकमुटजं कृत्वा भवन्तं तत्र स्थापयामः' । इति पुत्रगिरं श्रुत्वा सह कुम्भकारोऽप्यमन्यत यत उत्तरकालहितं को न मन्यते ? । ततः पुत्राः कापि विजने वने सरस्तटे श्वापदाऽधृष्यां कुटीं विरचय्य भोजनाच्छादनादिसामग्रीपूर्णां कृत्वा पितरं तत्र स्थापयामासुः, यतः शास्त्रे पितरौ दुष्प्रतिकारौ कथितौ स्तः । अथ स कुम्भकारस् वने निरुपसर्गः सुखेन परिवसति । तत्रेर्ष्यायाः प्रेरको नास्ति तेन कारणेन स्वेच्छया सुखेन कालनिर्गमं करोति । अथ नगरस्य भूपतिः मृगयाव्यसनी नगरतो बहुसैन्यपरिवारयुतोगहनवने मृगयार्थं गतः । तत्र चैकं मृगयूथं दृष्ट्वा तद्वधाय अश्वो वाहितः । ततो धावमानमश्चं पश्यद् मृगयूथं नष्टम् । राज्ञापि तत्पृष्ठे धावमानेन बहुतराऽवर्निलंङ्घिता मृगयूथं च कापि गिरिगह्वरादौ अन्तर्गतम् । ततो मूढलक्ष्यो राजा इतस्ततः कानने भ्राम्यति । भ्रमन् भ्रमन् रविकिरणैस्तापितस्तृषाक्रान्तः क्षुधया प्रपीडितः कथमपि तत्र सरस्तीरे समागमत् । एकस्मिन् सघनतरुतले विश्राम्यन् स्थितः । ततः पङ्कप्रियेण तं राजानं दृष्ट्वोपलक्ष्य च स्वोटजस्थं करकस्थितं | पाटलावासितं स्वादु सज्जनचित्तवत् स्वच्छं शीतलं जलं पायितः । राजापि हिमशीतलं जलं पीत्वाऽतिसुस्थो जातः । ततः पङ्कप्रियेण यथोपपन्नां रसवतीं निर्माय विधिवद् भोजितः । राजापि तां सद्य उत्पन्नां रसवतीं भुक्त्वा विगतश्रमो जातः । पङ्कप्रियोपरि बहुतरं स्नेहं दधौ यतोऽवसरे कृता भोजनायद्वा तद्वापि महार्ध्या भवति । ततोऽतिस्नेहं दधानो राजा पङ्कप्रियमपृच्छत् भोपंकप्रिय त्वयेकाकी केन कारणेन विजने वने स्थितोऽसि ? । यतो गृहिवेषो वने वास एतद्द्वयं सङ्कतं न भवति, अतो वनस्थितिकारणं ब्रूहि' । ततः पङ्कप्रियोऽवक्- " भोः स्वामिन् ! जन्तवः स्वदोषैरेव क्लेशकष्टानि प्राप्नुवन्ति, नात्र संशयः । आत्मोत्कर्षकरा नराः प्रायोऽसम्बद्धं प्रजल्पन्ति, वृथा प्रस्फूलन्ति, तच्छ्रुत्वा ममाऽत्यन्तदुःखकारिणीर्ष्या जायते । शिरोऽर्त्तिमिव दुःसहां तामीर्ष्या Jain Education International For Personal & Private Use Only द्वितीयः पल्लवः ॥ ४२ ॥ www.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy