________________
श्रीधन्य
चरित्रम्
॥ ४१॥
पुरुषोऽन्येषामुत्कर्षं दृष्ट्वा श्रुत्वा च मत्सरी भवेत् स दैवहतः पुरुषः पङ्कप्रिय इव दुःखभाजनं स्यात् । तथाहि -
ईर्ष्यापरि पङ्कप्रियकथा |
जम्बूद्वीपे दक्षिणभरते 'शत्रुभिरयोध्या अयोध्या नाम नगरी प्रवसति स्म । तत्रेक्ष्वाकुवंशोद्भवो जितारिनामा राजा श्रीरामचन्द्रवद् नीतिमार्गेण राज्यं प्रतिपालयति । तत्रैकः पङ्कप्रियाभिधः कुम्भकारो वसति वदान्यो जनमूर्धन्यो लक्ष्मीवान् विनीतः | खरप्रकृतिः । स ईर्ष्यालुतया परगुणान् श्रुत्वा न सहते । ईर्ष्याधिक्याच्चाऽस्य सर्वेऽपि गुणा अदूष्यन्त, यथाऽर्णवस्य क्षारत्वतः चन्द्रमसश्च कलङ्कतः । यदि कस्यचिदुत्कर्ष वार्ता प्रोच्यते तदा तस्य वार्तां श्रुत्वा ईर्ष्या जायते, ईर्ष्यया च दुर्निवारा शिरोव्यथा जायते । कदापि कानपि जनान् स्वकीयान् परकीयान् वा गुणान् वा प्रजल्पतो वीक्ष्य तान् निषेद्धुमशक्तः स्वशिर ईर्ष्यया कुट्टयति । अथ च निःस्वा अपि स्वविवाहोत्सवादीन् प्रशंसन्ति, आत्मोत्कर्षाय द्विगुण- त्रिगुणव्ययेन वर्द्धापयित्वा मिथ्यापि जल्पन्ति अल्पव्ययं | कृत्वा बहुतरं भाषन्ते यतोऽनधिगतागमरहस्यानां सर्वसंसारिणामियमनादिका जगत्स्थितिः, स्वोत्कर्ष बलतया भाषन्ते एव तथाप्येष जडाशयो दोषतो न व्यरंसीत् । तदा तस्य कोपाच्छिरः कुट्टयतः शिरसि व्रणश्रेणिरभूत्, विषवल्लेरीर्ष्याया अरुणा पल्लवावलिः किमु ? यतो हीनपुण्यस्य कोपः स्वघाताय जायते । अथ हितकाङ्क्षिभिः स्वसुतादिभिर्युक्त्या प्रबोध्यमानोऽपि नोपरमते, धिगस्तु जडचेतसः, ये निष्कारणहढं वहन्ति, स्वोपघातेऽपि न त्यजन्ति ।
ततोऽन्यदा तस्य पुत्रा अभ्यधुः - 'हे तात! तवाऽधुना विजने वने स्थातुं समीचीनतरं यत्रेर्ष्यालवमात्रोद्भवो नास्ति । तस्माद् १. रयोध्यमाना प्र०
Jain Education International
For Personal & Private Use Only
द्वितीयः पल्लवः
॥ ४१ ॥
www.jainelibrary.org