________________
श्रीधन्यचरित्रम्
द्वितीयः
पल्लवः
॥४०॥
चाऽधिकं पण्यं कर्तु नोचितम्, अद्यदिनं यावद् लक्षाधिकं किञ्चिल्लग्नम्, अतो लक्षमात्रं दत्त्वा सुखेन स्वक्रीडापात्रं कुरुत' । राजपुत्रेणापि कुमारोक्तं पण्यं दत्त्वा हुडो जगृहे । यतो क्रायके सति वणिजोऽधिकं मूल्यं वर्धयन्ति, ग्राहकोऽपि स्वस्पृहातुरतया पीडावशतो लक्षणापि तद् ग्राह्य वस्तु अपेक्षते, न पुनः क्रयाणकरम्यताम् । स धन्योऽपि द्विलक्षलाभयुतो गृहं गतः । ततः प्रथमतो द्विगुणं लाभं दृष्ट्वा कीर्तिः प्रशस्तिश्च ववृधे । सर्वे स्वजनाः परां तुष्टिं जग्मुः, यतः प्रगेऽर्कवद् जगति उद्गत एवं वन्द्यते। ततो बहुभिः प्रकारैः स्वजनैः परजनैश्च कृतां धन्यकुमारश्लाघां श्रुत्वा धन्याग्रजास्त्रयो मषिधानसमाऽऽनना बभूवुः । अथाऽसूयावतोऽपि तान् त्रीन् पुत्रान् पिता हितमेवं प्राह-'भोः पुत्राः ! सौजन्य संपदां बीजम्, दौर्जन्यं हि आपदां स्थानम्, अतो नयनिपुणैः सौजन्यमेव श्रयणीयम्। मूढोऽन्यस्योदयं द्विषन् जने दौर्जन्यवादं लभते, चन्द्रद्रुहं राहुं किं बुधाः क्रुरं न कथयन्ति ?। कमैककर्तृके विश्वे विश्वेषां वाञ्छितं न स्यात्, भाग्यं फलति सर्वत्र, किमनया विडम्बनया? । उक्तश्च - ___ "मिलिते लोकलक्षेऽपि, येन लभ्यं लभेत सः। शरीरावयवाः सर्वे भूष्यन्ते चिबुकं विना" ||१||
भाग्यं विना वरं वस्तु वृद्धेनापि न लभ्यते । यथा विष्णुनाऽब्धिमन्थने चतुर्दश रत्नानि लब्धानि, पुनर्वृद्धेनापि महेश्वरेण कालकूटं विषं लब्धम् । अतो भाग्यं विना शुभान्वयजातानामपि सौभाग्यं न भवति, अमृतादपि संजातः पङ्कः पादे लग्नः प्रमाj दूरतस्त्यज्यते । लोकेऽप्युक्तम्"अपि रत्नाकरान्तःस्थैर्भाग्योन्मानेन लभ्यते। पिबत्यौर्वोऽम्बुधेरम्बु ब्राहीवलयमध्यगम ||२|| भोः पुत्रा ! अत्युन्नतैः सहाऽसूया स्वविनाशाय भवति, मेघाऽसूयातः किमष्टापदजीवस्याऽङ्गभङ्गो न भवति ? । यः
॥४०॥
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org