SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ श्रीधन्यचरित्रम् ॥ ३९॥ पणीकृत्यस्वकीयं हुडमग्रे कृत्वा स्थितः । एवमन्येऽपि हुडयुद्धरसिकाः स्वस्वहुडं करे कृत्वा परितः स्थिताः सन्ति । अथ राजपुत्राऽग्रचारिपुरुषेणोक्तम्- 'स्वामिन् ! एष धनसारव्यवहारिपुत्रो हुडं गृहीत्वाऽऽगच्छति, अस्य पिता धनाढ्योऽस्ति, अत एनं | सामवचनैस्तोषयित्वा अनेन सार्द्ध हुडहोडां कत्वा लक्षधनं ग्रहीष्यामः ' । इति मन्त्रणं कृत्वा सम्मुखं गच्छन्ति । धन्यकुमारं समाहूय भाषितः - 'भो धन्यकुमार ! अस्मदीयहुडेन स भवदीयो हुडो युद्धं कर्तुं समर्थश्चेद् लक्षद्रव्यपणेन युद्धं काराप्यते । यदि भवदीयहुडजयो |भवेत् तदा लक्षस्वर्णं तव दास्यते, चेद् यद्यस्मदीयो जेष्यति तदा लक्षस्वर्णं भवत्पार्श्वाद् ग्रहीष्यामि' । इति राजकुमारोक्तं श्रुत्वा चिन्तितम्- 'सर्वलक्षणसम्पूर्णो दुर्बलोऽपि मम हुडो युद्धे जेष्यति, अतो लक्षधनमागतं कथं मुञ्चामि ? । इति निश्चित्य राजहुडेन सह तं हुडं योधयामास । ततो भाग्याधिकस्य धन्यस्य सर्वाङ्गलक्षणपूर्णेन हुडेन जितम्, स्वर्णलक्षं च गृहीतम्, यतो द्यूते युद्धे रणे वादे यतो धर्मस्ततो जयः । अथ राजकुमारश्चिन्तयति - अहो अस्य दुर्बलेन हुडेन मम हुडो जितः । कस्मिन्नपि देशे उत्पन्नः सुलक्षणपूर्णोऽयं हुडश्चेद् यदि मया गृह्यते तदाऽन्यदीयान् हुडान् जित्वाऽनेकलक्षान् समुपार्जयामि' । इति विचिन्त्य राजपुत्रो धन्यं प्रति प्राहः - 'भवदीयोऽहं हुडोऽस्मद्योग्योऽस्ति । भवादृशां महेभ्यानामीदृशं पशुपालनं प्रशस्तं न । हुडखेलनादि राजपुत्राणामेव घटते न तु व्यापारिणाम्, अत इमं हुडं यथालग्नम् इच्छापूर्वकं वा मूल्यं गृहीत्वाऽस्मान् देहि' । ततो धन्येन राजकुमारोक्तं श्रुत्वा विचिन्तितम् -'यत इयं हुडयुद्धादिक्रिया महेभ्यपुत्राणां यशस्कृन्न भवति, अतो यदीप्सितं मूल्य दत्त्वा गृह्णाति चेद्ददामि । इति सम्प्रधार्य धन्यः स्मित्वा इत्युवाच- 'हे स्वामिन्! अयं हुडः समस्तलक्षणैरन्यूनोऽस्ति, महत्या गवेषणया लब्धः, बहुतधनव् गृहीतः स कथं दीयते ? परन्तु स्वामिवाक्यं दुर्लङ्घयं कथमन्तर्गडु क्रियते ? ततो लग्नं धनं दत्त्वा गृह्यताम् । भवदीये कार्ये Jain Education International For Personal & Private Use Only द्वितीयः पल्लवः ॥ ३९ ॥ www.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy