________________
श्रीधन्यचरित्रम्
द्वितीयः
पल्लवः
॥३८॥
अथ द्वितीय: पल्लव: अथ पितरं प्रति पुत्राः प्रोचुर्वचस्विजनरीत्या-“हे तात ! अस्माकं चित्ते कदापि मत्सरः स्थितिं न धत्ते, परन्तु दैवतस्यापि केनापि विहितं मिथ्याशंसनं न क्षमामहे, तर्हि अन्यदेहिनो मिथ्याकथां श्रुत्वा कथं सहामहे ? । हे तात ! भवता मुहुर्मुहुर्धन्यवर्णनं क्रियते, परन्तु धन्यश्छलाल्लेखं वाचयित्वा वञ्चकवत् छलक्रियां कृत्वा धन लक्षयुवानयत् । एवदुपानेनंद काकतीसीयं नतुपुनः | सर्वकालिकम् । व्यवहार नीत्या तु यथार्ह सर्वदा लभ्यते। इह तु कादाचित्कं शिष्टा न प्रमाणयन्ति' । इत्याधुक्तिगर्भा पुत्रगिरं श्रुत्वा पुनस्तेषां पुत्राणां प्रतीत्यर्थं धनसारश्चतुःषष्टि चतुःषष्टि स्वर्णमाषकान् ददौ। ततस्ते त्रयोऽपि तान् स्वर्णमाषकान्लात्वा यथाक्रम चतुष्पथं प्राप्ताः । ते सर्वे लक्ष्मीसमीहया स्वस्वकलाकौशल्यं विस्तारयन्तोऽपि स्वस्वकर्मोचिता लाभहानीरानीय स्वगृहमागताः । द्वात्रिंशन्माषजन्यलाभतोऽपि न्यूनं समानं वा, परं धन्यतुलां कोऽपि न करोति। ____ अथाऽन्यदिने पितुराज्ञया धन्यः स्वर्णमाषकान् लात्वा वाणिज्याम्रलतां सेवितुं प्रारेभे । कर्पूर-स्वर्ण-माणिक्यवस्त्रादिवाणिज्यापणवीथिषु गच्छन् कुशकुनव्रातैर्निषिद्धो न्यवर्तत। पुनः क्षणान्तरं स्थित्वा शकुनमार्गणां कुर्वतः पशुक्रयचतुष्पथे मार्गे शुभशकुनानि जातानि । ततः शकुनानि वन्दित्वा तस्मिन्नेव चतुष्पथे व्यवसायार्थ गतः । तत्रैकं सद्गुणं शास्त्रोक्तशुद्धलक्षणलक्षितं 'हुडं ददर्श ।
ततः शुभलक्षणैः पूर्ण हुडं विज्ञाय पञ्चमाषकस्वर्णमूल्येन तं हुडं गृहीत्वा यावदायाति तावता राजमार्गे राजपुत्रः स्वर्णलक्षं
॥३८॥
१. मेढब्म्।
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org