________________
श्रीधन्य
चरित्रम्
॥ ३७ ॥
| अतोऽनुत्सारितमात्सर्य काञ्जिककुथितं श्रोतुमयोग्यम् । एकमेतस्य नैर्गुण्यं जगत्यपि न माति। अहो निष्कारणमयेर्ष्यालुत्वं | दृष्टम् । यत आद्यो मुनिर्गुणिनामग्रणीः समस्तगुणरत्नानां भाण्डागारम्, द्वितीयः पुनर्गुणरागी गुणिनां गुणजल्पने शतसुखः, तथाऽशङ्कतया स्वदोषप्रकटनपटुः, अतो लोके उभावपि शुभाशयौ, एतौ पूज्यतमौ ज्ञेयौ । तृतीयः पुनः पापीयान् दोषव्यापी गुणमत्सरी अदृष्टव्यमुखः पूजादिकं नार्हति' । यथा तया श्राद्धया निर्गुणोऽपि गुणरागी गुणी च यथावत्पूजितौ नित्यं मत्सरिलिङ्गिनं च दूरतोऽत्यजत्, तथा वत्सा ! मात्सर्यदोषमुत्सार्य साधुवादकल्पलतां गुणरागितां भजध्वम् । एतादृशीं चारुगुणानुरागसम्बोधनीं धनसारवाचमाकर्ण्य त्रिभ्रातृवर्जस्वजना प्रमोदमधुः ।
Jain Education International
॥ इति श्रीतपागच्छाधिराज श्री सोमसुन्दर सूरिपट्टप्रभाकरविनेयश्री जिनकीर्तिसूरिविरचितस्य पद्यबन्धधन्यचरित्रशालिनः श्रीदानकल्पद्रुमस्य महोपाध्यायश्री धर्मसागरगणिनामन्वये महोपा. श्रीहर्षसागरगणिप्रपौत्र-महोपा. श्रीज्ञानसागरगणिशिष्याल्पमतिग्रथितगद्यरचनाप्रबन्धे भक्तदानाख्यप्रथमशाखायां स्वर्णलक्षोपार्जननामा प्रथमः पल्लवः ॥
For Personal & Private Use Only
प्रथमः
पल्लवः
॥ ३७ ॥
www.jainelibrary.org