________________
श्रीधन्य
चरित्रम्
॥३६॥
| मम च मध्ये महदन्तरमस्ति" । एवमुक्त्वा सा श्राद्धी व्यचिन्तयत् - " अहो ! धन्यौ इमौ द्वावपि वाचंयमौ । एकस्तावद् गुणरत्नरत्नाकरः, द्वितीयो हि गुणरागी, अतो द्वावषि श्लाघनीयौ । यत उक्तञ्च -
"नाऽगुणी गुणिनं वेत्ति, गुणि गुणिषु मत्सरी । गुणी च गुणरागी च, सरलो विरलो जनः " ‘“जगति प्रमादमोहितमतिर्लोकः पदे पदे स्वस्तुतेः परनिन्दायाश्च कर्ता दृश्यते, परन्तु परस्तुतेः स्वनिन्दायाश्च कर्ता कोऽपि | न विद्यते । एवं तयोर्गुणानुमोदनं कुर्वती स्थिता ।
शेवसरेऽपर एकः कोऽपि विगोपितव्रतः पार्श्वस्थः श्रमणो भिक्षार्थमागतः । स कीदृश: ? ; गुणिषु प्रबलद्वेषः परच्छिद्रान्वेषी असूयाज्वलितहृदयः वेषमात्रोपजीवकः । तमागतं दृष्ट्वा तया श्राद्धया स्वगृहादन्नादिकमानीय स लिङ्गधारी प्रतिलाभितः । तदनन्तरं तया तथैव पूर्ववद् व्यतिकरं निवेद्य स पृष्टः । अथ स श्रमणधृष्टोऽब्रवीत् -"हे भद्रे ! तौ महत्त्वार्थौ द्वावपि मया ज्ञातौ । तत्र प्रथमो मायाकार इव मायया जनमनांसि रञ्चयति तथा चाऽपरो पटु-चाटुवचनपरो वनीपक इव मायया स्वदोषकथनादिरङ्ककलां कृत्वा सुखेन सदोदरं पूरयति, साधुत्वं च अन्यस्तुत्या प्रकटयति, परन्तु दम्भसमुद्रावेतौ। हे कल्याणि भद्रे ! अहं तु दम्भसंरम्भवर्जितो निर्मायोस्मि, यथालब्धाऽन्नपानादिग्राही, परन्तु न प्रतिक्षणं प्रतिद्रव्यं दोषप्रच्छनादिकपटकदाग्रहकारी, सरलस्वभावेन प्रवर्ते । हे भद्रे ! प्राग् मयाऽपि ईदृशी जनरञ्जनकारिणी माया बहुशोभार्थं बहुशः कृता, भद्रकजनान् विप्रतार्य सोत्कर्ष सम्पूर्य भुक्ता च । तस्मादनयोर्वञ्चकत्वं मयाऽवधारितमस्ति । मया तु अस्मिन्न कश्चित् सारो दृष्टः अतस्त्यक्तम्, सरलता चाऽङ्गीकृता” । एवमुक्त्वा गतो लिङ्गी । तदा स्फुरत्कोपा सा उपासिका हृदि एवं दध्यौ -"अहो ! ईर्ष्यासङ्गी लिङ्गी कीदृशमसम्बद्धं वाक्यं प्रलपति ?
1
Jain Education International
For Personal & Private Use Only
प्रथमः
पल्लवः
॥३६॥
www.jainelibrary.org