SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ श्रीधन्य प्रथमः चरित्रम् पल्लव: ॥३५॥ निर्मायबुद्धिर्भेक्षं करे कृत्वा हा बहिर्यावता आययौ तावताऽसौ मुनिस्तं भैक्षम् अलात्वैवाऽन्यतो गतः । ततः सा श्राद्धी अदत्तं मुनिं गतं दृष्ट्वा हताशा स्वं भाग्यं निंदन्ती खेदं चकार । अथ तत्रैव क्षणान्तरे दैवयोगेन एको गुणरागवान् वेषमात्रधरः साधुरागतः । पुनः सा श्राद्धी तमागतं दृष्ट्वा भैक्ष्यद्रव्यं करे कृत्वा मुनिं निमन्त्रयामास, मुनिरपि तद् भैक्षं कक्ष्यकरोत् । अथ सा श्राद्धी प्रथमद्वितीययोमिथो विशेषं दृष्ट्वा एवमब्रवीत्-"भो ऋषे! यदि तव रोषोत्पत्तिर्न भवति तदा कमपि प्रश्न प्रष्टुमिच्छामि। ततो वेषमात्रधरो मुनिर्वाणीमभाणीत्-"हे कल्याणि स्वच्छमते! यथेच्छं पृच्छ, यतोऽहं रोषदोषशोषकरोऽस्मि, कस्यापि क्रोधोत्पादकं वचनं श्रुत्वा रोषं न करोमि'' । अथ सा श्राद्धी अभ्यधात्-"त्वत्तः प्राग् एकस्त्वत्समः साधुरागतः, स मया दीयमानां भिक्षां दृष्ट्वा पश्चाद्गतः । पुनः क्षणान्तरे यूयमागताः, भिक्षा च गृहीता। एतस्मिन् युवयोवैषम्ये किं कारणम्" ? | श्राद्ध्या एवमुक्ते सति स वेषमात्रधरः साधु प्राह- "हे कल्याणि भद्रे ! ते मुनयः प्राणिरक्षणपरायणा महात्मानः सनवब्रह्मगुप्तयः । ते च निर्ममा मुनय एतस्य धर्मगात्रस्य यात्रामात्रार्थ रूक्षं भैक्षमश्नन्ति।अन्ताहारं प्रान्ताहारं तुच्छाहारं उञ्छवृत्त्या समागतं इङ्गालधूमादिदोषरहितश्नन्ति, नतु अतिस्निग्धमधुरादि। हे कल्याणि! नीचद्वारे अन्धकारेण गहने तव सदने अचक्षुर्विषये कृपालवो मुनयो भिक्षां न गृह्णन्ति, अतस्ते पश्चाद्गताः । 'अथ त्वया कुतो गृहीता' ? हे भद्रे ! यद्येवं पृच्छसि तदा श्रृणु-अहं पुनर्वेषमात्रोपजीवित्वात् श्रमणाभासः, न तु तात्त्विकः । हे कल्याणि ! अग्रेतनसाधोधैर्य क ? यतः प्राणितेऽपि गतस्पृहः । ईदृग्गुणवतः सकाशाद् हीनसत्त्वो देहलालनलालसः पुनरहं कियन्मात्रः? फालहतद्विपस्य मृगाऽरातेरग्रे श्रृगालः कियन्मात्रः ? मार्तण्डमण्डलस्याग्रे खद्योतोद्योतः कियन्मात्रः ? स तु तात्त्विकभावमुनिः सर्वगुणरत्नविभूषितः । हे भद्रे ! अहं तु चञ्चापुरुषवद् नाममात्रधारको वेषाडम्बरेण उदरवृत्तिं करोमि, अतस्तस्य Jan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy