________________
श्रीधन्यचरित्रम्
प्रथमः
पल्लवः
॥३४॥
| त्वमवातरः। अहो भवतः सौभाग्यभङ्गी । कटरेऽद्भुतं भाग्यम् ! अहो तव लक्ष्मीणामवन्ध्यबीजं वाणिज्यकौशलम् ! अहो तव सर्वक्रियानिपुणत्वेऽपि मृदुता ! अहो तव लघुवयस्यपि वृद्धानुकारिणी गतिः ! । हे देवर त्वं चिरं जीव, चिरं नन्द, चिरं जय, चिरमस्मान् पालय, चिरं स्वजनान् रञ्जय, चिरं स्वकीयसच्चरित्रेण पवित्रय निजवंशम्"। एवं स्वस्वकान्ताभिः अत्यद्भुतगुणस्तुतिं कृतां निशम्य धनदत्तादयो बान्धवा ईर्ष्यालवोऽभवन् । अथ पिता तेषां मत्सरितानि वाक्यानि श्रुत्वा पुत्रानित्युवाच-'"हे वत्सा ! तत् साधुजनोचितं यद् गुणेषु मत्सरित्वम् । शास्त्रेऽप्युक्तम्-ज्वालामालासकुले वह्नौ निहितं स्वशरीरं वरम्-युक्तम्, परन्तु गुणसम्पन्ने पुरुषे स्वल्पमपि मात्सर्यकरणं न युक्तम्। यतो निष्पुण्याः पुरुषा; पुण्याढ्यस्य पुरुषस्य महोऽग्निना अतिशयेन दह्यमाना भाग्यहीनाः तत्पथं गन्तुमसमर्थाः पदेपदे विभाषन्ते, प्रस्खलन्तीत्यर्थः । आसतां दूरे गुणिनो यैरशेषभूतलं भूषितमस्ति पृथिवीतलं मण्डितमस्ति पुनर्येषां गुणानुरागोऽस्ति तेऽपि पुरुषा जगत्त्रये पूज्याः सन्ति । भोः पुत्रा ! गुणद्वेषात् पूज्योऽपि अपूज्यः स्यात्, गुणरागी तेजोहीनोऽपि पूज्यो भवति । अत्र गुणराग-द्वेषविषये एको मुनियामलदृष्टान्तोऽस्ति, स श्रूयताम् । तथाहि
गुणराग-द्वेषविषये पार्श्वस्थमुनियामलदृष्टान्तः पुरा एकः कोऽपि गोपितन्द्रियचापल्यः तपसाकृशशरीरोज्ञानार्णवपारीण उद्भूतभवभीतिर्मुनिरभूत्। मुनिरन्यदा कस्मिंश्चिदिने गोचरचर्यायां भिक्षार्थं नगरे भ्रमन् इर्यासमितोऽच्छद्ममानसो नित्यमप्रमत्तः कस्या अति स्त्रियाः सद्मनि गतः । स्त्रीणामनेकहावभाव-विभ्रम-कटाक्षादिविलासदर्शनैरपि अक्षुब्धमनाः कूर्म इव गोपितेन्द्रियो गृहे प्रविष्टः सन् धर्षिताऽरातिर्महर्षिः जगति कल्पद्रुमाभां 'धर्मलाभ' इति गिरं उचितदेशे स्थितः । ततो गृहमध्ये स्थिता युवतिस्तम् ऋषिराजमागतं दृष्ट्वा धर्मस्पृहावती
॥३४॥
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org