________________
श्रीधन्यचरित्रम्
॥३३॥
Jain Education Int
1
गताः । ततः सुस्वाद्यान् चित्तमोदकारकान् मोदकान् विविधराजद्रव्ययुतान् पर्यवेषयन् । ततो घृताऽऽचितान्ं स्वर्गात् च्युतानिव | विधुमण्डलसदृशान् शुभ्रान् आमोदपूरकान् धृतपूरान् पर्यवेषयन् । ततो माधुर्यरसातुरतामेटकान् नटनागरकोटकानिव गलरन्ध्रे | प्रविश्य गटकेतिशब्दपाठकान् अत्युज्ज्वलान् पेटकान् पर्यवेषयन्। तत आहारशरीरोष्मोद्भूततृष्णातप्तिखण्डकान् श्रीखण्डकान् | मन्दाकिनीपुलिनगत सिकतोपमखण्डामण्डितमण्डकान् पर्यवेषयन् । ततो माधुर्यरसप्लाविताऽन्तःकरणानाम् | आहारशक्तिमन्दताचूरिका लवण-हरिद्रा मरिचकादिद्रव्यभूरिका अत्युष्णाः पूरिकाः, तथा समस्तरसमिश्रितानि खर्जूरादीनि | पर्यवेषयन् । ततः सुरभिः शुभ्र - सुकुमार- सच्चिक्कण-सुक्षेत्रादिगुणयुतान् खण्ड-कलम- शालिजातीयान् तण्डुलान्, रोचकोत्पत्तिसमुद्रकान् मुद्रान्, तथा नागरजनप्रीत्यै पीततूवरीदालिं च पर्यवेषयन् । ततोऽतिपरिमलप्राज्यानि आज्यानि, तथाऽष्टादशसंस्कारभेदैर्विभिन्नानि व्यञ्जनानि च पर्यवेषयन् यथास्थाने। 'ततो भुक्तिसुभ्रुवो हास्यस्य संरम्भानिव करम्भान् पर्यवेषयन्। एवंविविधभुक्तियुक्तिभिर्हष्टा सर्वेऽपि स्वजनाबुभुजिरे। ततो भोजनोत्तरकाले ताम्बूलैर्मुखशोभां च भेजिरे ततः स्वजन| ज्ञातीयादिजना धन्यगुणवर्णनं कुर्वाणाः स्वस्वगृहं गताः ।
ततः शेषद्रव्यव्ययेन भ्रातृजायानां विविधान्याभरणानि व्यधापयत् । तद्यथा-हारा ऽर्धहार- त्रिसर- पञ्चसरसप्तसरनवसराऽष्टादशसरादीनि तथाऽपराणि कनकावलि - रत्नावलि - मुक्तावलिप्रमुखाणि कटिकण्ठ-कर्णकरादिषु च शोभनानि आभरणानि कारयित्वाऽर्पितानि । ततो भ्रातृजायाः समुदिता मुदिता देवरं प्रति जगुः, 'हे देवर ! अस्मत्पूर्व कृतैः पुण्यैरेव १ ततोऽधिकसंरम्भारम्भानिव हास्यकरकरंभान् प्र. ।
For Personal & Private Use Only
प्रथमः
पल्लवः
॥ ३३ ॥
www.jainelibrary.org