________________
श्रीधन्य
चरित्रम्
॥३२॥
Jain Education International
तेन नैगमेन महेश्वरेण सार्थनायकं प्रति क्रयाणकग्रहणाशयो ज्ञापितः । ततः स सार्थनायकः स्मित्वा महेश्वरादिनैगमानित्युवाच‘'वः-युष्माकं भद्राणि भवन्तु । परन्तु किं कुर्वे ?, पूर्वमेवैतत् क्रयाणकं धन्यस्याऽस्य मयाऽर्पितम् । मयाऽस्य सत्यङ्कारोऽपि चाऽग्राहि । इत्येवं विहितनिर्णयश्चेदन्यथा कुर्वे तदाऽपकीर्तिर्भवेत्' । महेश्वरमित्रेणाप्युक्तम्- "मया तु प्रागेव युष्माकं लेखो मोचितः, परं युष्माभिः प्रमादवशैरवसरो न ज्ञातः, तदा किमस्माकं दूषणम् ? अधुना तु धन्यमेव साधयतु भवान्, कमपि उचितलाभं दत्त्वा क्रयाणकं गृह्णातु चेत्तदापि भवतो महान् लाभो भविष्यति' । इति श्रुत्वा स नैगममहेश्वरो धन्यकुमाराभ्यर्णं गत्वेत्युवाच - "भोः पुण्यनिधे ! भवता गृहीतं क्रयाणकमस्मानर्पय, लाभस्य च हेमलक्षं गृहाण, यथाऽस्मदागमनं सफलं भवति, तव चाऽनायासेन लक्षप्राप्तिर्भवति । तथाऽमीषां मेहभ्यानां लज्जां रक्षतु भवान् एवं कृते युष्माकं धनयशसोर्लाभो भविता, वयं च चिरं त्वदुपकारं गणयिष्यामः” । अथ स्थूललक्ष्यशिरोमणिर्धन्यः पूर्णमनोरथोऽपि इत्यादीनि चाटुवचनानि श्रुत्वा सहर्षमेवमुक्तवान्- "गृह्णीत क्रयाणकम् । अस्मिन् क्रयाणके लाभस्तु महानस्ति परन्तु लक्षमात्रमेव ददस्व । युष्मादृशानां वृद्धानां वाक्यं किमु विफलं करोमि ? | कुलजानां तु वृद्धानां विनय एवो चितः । " एवं सामवचनैः सर्वान् हर्षयुत्याद्य तान् क्रयाणकपत्रं दत्त्वा लक्षधनं च लात्वा स्वगृहमागतः । पितुः प्रणामं कृत्वा तव्यमग्रे मुमोच व्यतिकरश्च निवेदितः ।
अथ द्रव्यसहस्त्रव्ययेन भोज्यवस्तून्यमेलयत्, सूपकारैश्च विविधद्रव्यसंयोगेन विविधद्रव्यसंस्कारपूर्विकां विविधां रसवतीं | कारयामास । ततो ज्ञाति-स्वजन - मित्रादींश्च निमन्त्रयामास, तेऽप्यायाता यथास्थानं सर्वे भोक्तुमुपाविशन् । तत्र प्रथमं कुलबालिकाः | स्वादुफलानि नारङ्गादीनि खर्जूरद्राक्षादीनि च पर्यवेषयन्, तानि फलान्यास्वादयन्तो धन्यगुणवर्णनं कुर्वाणा विविधरसतृप्तिं
For Personal & Private Use Only
प्रथमः
पल्लवः
॥३२॥
www.jainelibrary.org