________________
श्रीधन्यचरित्रम्
॥ ३१ ॥
क्रयाणकादिकं, पश्चाद् दूरतंर गत्वा, सार्थवाहस्य जोत्कारादिशिष्टाचार' कृत्वा एकाक्येवाऽखिलानि क्रयाणकानि ग्रहीष्यामि । क्रीतैश्च क्रयाणकैरेतैर्महान् लाभो भूयो भविष्यति, यतोऽत्र पुरे कस्यापि हट्टे ईदृशं क्रयाणकं नास्ति' । एवं विचिन्त्य महेश्वरो भोजनाय गृहं गतः । यस्माद् उत्सर्गमपवाद इव सर्व क्षुधा बाधते । अथ महेश्वरहट्टस्थितो धन्योऽतिस्वच्छभूर्जपत्र स्पष्टप्रतिबिम्बितां वर्णावलिं गोपिताकारस्तीक्ष्णबुद्धितया वाचयित्वा इति विचिन्तयति - " अहो अस्य विचारमूढस्य मूर्खता ! । यतो वयस्येन रहो ज्ञापितोऽपि लेखं वाचयित्वा भोजनाय गतः । एतादृशि वणिजां गतिर्न भवति । अतो यावदसौ ' गृहाद् भुक्त्वा नागच्छति तावत् पूर्वं सार्थमध्ये गत्वा तत्पण्य-महमात्मसात् कुर्वे, यतः श्रीणां बीजमुद्यम एव प्रोक्तः" इति ध्यात्वा स गृहे गत्वा स्फारशृङ्गारं कृत्वा तुरङ्गममारुह्य स्वयोग्यमित्र-सेवकैर्युतः सार्थसंमुखं प्राचलत् । सोऽथ प्रथमयामार्धे बहुप्रायां भुवं गत्वा पथि सार्थस्य सार्थाधिपस्य चाऽमिलत् । तत्र कुशलालापं विधाय धन्यः सार्थपं पण्यस्य भाण्डस्वरूप-सङ्ख्यादि पप्रच्छ । तदा स सार्थेशोऽपि यथास्थितं कथितवान् । ततो धन्ये न सार्थेशं प्रति पण्यगृहणा शयो ज्ञापितः । श्रेष्ठिना पि स्वहस्त संज्ञायिः सार्थकैः स्वमित्रैः सह परिभाव्य कयाणकं मूल्यमुक्तम् । धन्येनापि स्वीकृतम् । धन्यकुमारः पण्यस्य भव्याभव्यपरीक्षणाय प्रतिक्रयाणकमल्पमल्पं दृष्टिगोचरं कृत्वा | तत्सर्व हस्ततालदानेनात्मसाचक्रे । तस्य सत्यङ्कारपदे स्वकीयां मणिमुद्रिकां दत्त्वा निश्चिन्तो बभूव ।
अथ च महेश्वरमहेभ्यः स्वगृहे भोजनं कृत्वा गमनोत्सुकः, तथा परेऽपि नैगमाः सार्थागमं ज्ञात्वा गन्तुमनसो महेश्वरेण सार्द्ध | सार्थसंमुखं चेलुः । मार्गे गच्छतां सार्थेशः सार्थयुतो मिलितः । परस्परं जोत्कारादिशिष्टाचारं कृत्वा सुखक्षेमवाताँ च संपृच्छ्याऽथ १. गृहे प्र. ।
Jain Education International
For Personal & Private Use Only
प्रथमः
पल्लवः
॥३१॥
www.jainelibrary.org