________________
श्रीधन्यचरित्रम्
प्रथमः
पल्लवः
॥३०॥
तृतीयो भ्राता तदृव्यव्यवसायलब्धद्रव्येण यथाकथञ्चित् कुटुम्बं भोजयामास।अथ चतुर्थे दिने जनको धनकोट्यर्जनसजं धन्यकुमारं प्रति त्रिंशतं स्वर्णमाषकान् ददौ । धन्योऽपि च जनकदत्तं स्वर्ण गृहीत्वा आषाढमेघवद्धनजीवनमर्जितुं चतुष्पथाम्भोधिं गतः ।। तत्र शुभशकुनैः प्रेरितो महेभ्यस्य महेश्वरस्य हट्टे भाग्यवशाद् व्यवसायार्थ जग्मिवान् । तदा तत्र महेश्वरः स्वमित्रलेखं प्रेष्यकरागतं गोप्यं कृत्वा उन्मुद्य मौनेनैवमवाचयत् । पत्रलिखितं यथा-"स्वस्तिश्रीप्रतिष्ठानपत्तने परमसुहृदं महेश्वरं प्रति सार्थस्थानाद् मित्राभिधो वणिक् प्रीतिपात्रं क्षेत्रपात्रं च विशदीकृत्य लिखति प्रणामश्च वाच्यः, अपरं चाऽत्र सुखं वर्तते, भवदीयं सुखपत्रं प्रेष्यम्। तथा कार्यमथोच्यते-उत्तरापथतः पयोवाह इवोन्नतः सार्थवाहोऽगण्यपण्यभृत शकटादिभिः सहागच्छति । पुनस्तत्रैव जिगमिषुरस्ति। हे बान्धव! दत्तदारिद्यप्रयाणानि क्रयाणकानि बहुतराणि महेभ्यार्हाणि सन्ति। किञ्च, असौ सार्थवाहः स्वल्पलाभेऽपि स्वक्रयाणकं कृतोऽपि कारणाद् विक्रीय स्वस्थानं गन्तुमुत्सुकः । तस्मात् कारणाद् मित्र ! त्वया सार्थवाहस्य सम्मुखं शीघ्रमागम्य क्रयाणकस्य सत्यङ्कारो विधेयः, तव मम चमहान् लाभो भविष्यति। एवंविधव्यतिकरगर्भा लेखा बहवः पुरा मया त्वां प्रति लिखिताः सन्ति, परन्तु त्वया नैकमपि प्रतिपत्रं प्रेषितम् । अथवा मल्लिखितो लेख एकोऽपि त्वद्धस्ते स्वर्णनिधिवन्न प्राप्तो भवति, अतः शीघ्रमागन्तव्यमिति' । इत्येवं वाचयित्वा मनसि लेखार्थ चाऽवधार्य अनार्यवत् प्रभातेऽपि क्षुधार्तोऽसौ चेतस्येवं चिन्तयति"भाग्यैकलभ्याऽगण्यपण्याढ्यः सार्थ आसन्न आगतः, परमद्यापि व्यवसायाग्रपरेण परेण नागरिकवणिजा केनापि न ज्ञातोऽस्ति तावत् क्षुधार्दितोऽहं गृहे गत्वा, भुक्त्वा, स्वस्थचित्तो भूत्वा, यतः ‘स्वस्थे चित्ते बुद्धयः' सम्भवन्ति' इति न्यायात् 'धीसाध्यं च
॥३०॥
१.सहागतः प्र०।
Jan Education International
For Personal & Private Use Only