________________
श्रीधन्य
चरित्रम्
नवमः पल्लव:
॥४४८॥
अनुसरणीयम्, परंश्लेष्मोपलिप्तया मक्षिकयेव न भवितव्यम्'।वीरधवलेन तत्सविनयश्रवणपूर्वकंसर्वमङ्गीकृतम्। ततो वीरधवलेन महोत्सवपूर्वकं चन्द्रधवल-धर्मदत्तादीनांम् अनुमोदनपूर्वकं दीक्षा दापिता । तै: पञ्चमहाव्रतान्यङ्गीकृतानि । विधिपूर्वकं शिक्षांच लात्वा यथार्थं मुनिमण्डल्यां स्थिताः। गुरुभिरुपदेशो दत्तः । यथा
"चारित्ररत्नान्न परं हि रत्नं, चारित्रलाभान्न परो हि धर्मः।
चारित्रवित्तान्न परं हि वित्तं, चारित्रयोगान्न परो हि योगः" ||१|| तथा
"न च राजभयं न चौरभयम, इहलोकसुखं परलोकहितम,। नर-देवतं वरकीर्तिकरं, श्रमणत्वमिदं रमणीयतरम' ||१|| तावद् भमन्ति संसारे पितरः पिण्डकइक्षिणः । यावत् कुले विशुद्ओधात्मा यतिः पुत्रो न जायते" ||१||
इत्यादिधर्मदेशनां श्रुत्वा वीरधवलादिभिर्गृहिधर्मोऽङ्गीकृतः । अथ जातिस्मरणयुक्ता मर्कटी गुर्वाज्ञया धनवत्या गृहे नीत्वा, स्वपुत्र-वधूभ्यां च पूर्वभवस्नेहसम्बन्धविपाकं श्रावयित्वा प्रोक्तम् --"अस्याः प्रतिपालना कर्तव्या । इयं मर्कटी जातिस्मरणयुक्ताऽस्ति. अतोऽस्या एकान्तरोपवासनियमोचिता युवाभ्यां पारणादिचिन्तावश्यं कर्तव्या । किं बहुना ?, मत्सदृश्येव गण्या, नान्तरं कर्तव्यम्' । इत्युक्त्वा धनवती संयमे सावधानमना बभूव । अथ मर्कट्यपि धर्ममाराध्य स्तोकेनैव कालेन मृत्वा
||४४८॥
Jain Education
For Personal & Private Use Only
www.jainelibrary.org