________________
श्रीधन्य चरित्रम् |
नवमः पल्लव:
॥४२९॥
प्राप्तम् । ततः पुनर्गुरुणा कृत्वा सूरिपदं दत्तम्, अनेकसाधुसमुदायोऽपि दत्तः । सोऽहं पृथिव्यां विहरन् अत्रागतोऽस्मि ।
अथ च सा तव माता पोते भग्ने जले निमग्ना , आर्तध्याने मृत्वा मत्सी भूता । पुनर्मता आर्तध्यानेनैषा मर्कटी जाता । यत आर्तेन तिर्यग्गतौ , रौद्रेण नरकगतौ धर्मेण देवगतौ, शुक्लेन मोक्षगतौ, शुभार्तेन मध्यमपरिणामेन | मनुजगतौ गच्छन्ति जीवाः । ततो यदाऽत्रागत्य स्थिता तदाऽस्मान् दृष्ट्वा पूर्वभवस्नेहोदयाद्भ्राम्यति नृत्यति च"। ___ इति गुरोर्वाक्यानि श्रुत्वा धनवती मर्कटी वीक्ष्य पुनः पुना रोदिति । 'हा मातः! तव किं जातम् ?' इति पुनः T| पुनर्जल्पन्ती नयनाभ्यामश्रूणि अमुचत् । गुरुभिरुक्तम् - "वत्से ! विचित्रा कर्मणां गतिः, दुस्तरो भव-जलधिः । यत: -
"न सा जाईन सा जोणी, न तं ठाणं न तं कुलं । न जाया न मुआ जत्थ, सव्वे जीवा अणंतयसो" ||१|| "घणकम्मपासबद्धो, भवनयरचउप्पहेसु विविहाओ।
पावइ विडंबणाओ, जीवो को इत्थ सरणं से?" ||१|| तेन धर्म एव संसारदुःखात् समुद्धर्तुं समर्थो, नान्यः । यतः-'धर्माज्जन्म कुले' इत्यादि । तेन दुर्लभं मनुजभवं १. न सा जार्तिन सा योनिन तत्स्थानं न तत्कुलम् | न जाता न मृता यत्र सर्वे जीवा अनन्तशः ।।१।। २. घनकर्मपाशबद्धो, भवनगरचतुष्पधेषु विविधाः । प्राप्नोति विडम्बना, जीवः कोऽत्र शरणं तस्य ||१||
॥४२९॥
Jan Education
For Personal & Private Use Only
wow.jainelibrary.org