________________
*
श्रीधन्य चरित्रम्
नवमः पल्लव:
॥४१५॥
निद्रावशं गतः कुमारस्तु जागर्ति; तावता दिव्यातोद्यरवः श्रुतः । ततः कौतुकाक्षिप्तचित्तः कुमारो धर्मदत्तं निद्रायमाणं मुक्त्वा , खॉ करे कृत्वा मार्गेभिज्ञानानि कुर्वन् अग्रतश्वलितः । स्वरानुसारेणैव गच्छता दूरे क्वापि वनान्तरे विस्तीर्णं यक्षभवनं दृष्टम् । तस्मिन् आतोद्यपूर्वकं नाटकभवनं ज्ञात्वा कुमारः साहसं धृत्वा तत्समीपे गतः परं दत्तकपाटं देवगृहं दृष्ट्वा सविस्मयं बहिः स्थितः । किञ्चिद् विलम्ब्य इतस्ततो विलोकयता कपाटे एकं छिद्रं लब्धन् । तेन च्छिद्रेण पश्यता मध्येऽष्टोत्तरशतदेवकनीवृन्दं नृत्यद् दृष्टम् । तन्मध्ये चैकां रूपलावण्येन तदधिकतरां दृष्ट्वा विस्मितः परं तां लक्षणैर्मानुषकनी निर्धार्य चमत्कृतचित्तश्चिन्तयितुं लग्नःएषां मानुषकनी देवकनीभिः सह कथं निवसति ? | अहो ! विधेर्निर्माणं दृश्यताम्, जात्या मानुष्यपि रूपादिना देवकनीवृन्दम् अधरयतिः' । एवं विचारयन् पुनरपि नैपुण्येन पश्यन्, 'एषा मानुष्येव' इति निर्णयं कुर्वन् - घटिकामात्रं तत्र स्थितः। तावता धर्मदत्तः स्मृतिपथमागत:-'अहो! मया तत्र निद्रायमाणं धर्मदत्तं मुक्त्वाऽत्रागमनं कृतम् परं तत्र कोऽपि श्वापदादिर्भमन् आगमिष्यति तदा तस्य निद्रायमाणस्य का गति: ?, ईदृशानि कौतुकानि तु जगति बहुनि भवन्ति, अतोऽहं शीघ्रं तत्र गच्छामि' इति ध्यात्वा पवाद् अभिज्ञानपूर्वकं पश्यन् धर्मदत्तसमीपं गतः । सोऽपि तत्क्षणमेव प्रबुद्धोऽस्ति । कुमारणालापित:-'भो भद्र ! त्वया किमपि श्रुतं वा न हि ?, तेनोक्तम्'स्वामिन् ! एते शृगालाः शब्दायमाना भैरवी च कलकलायमाना श्रूयते, नाऽन्यत् किमपि' एवं धर्मदत्तोक्तं श्रुत्वा कुमारेण ईषद् विहस्योक्तम्-'भद्र! त्वया तु भरनिद्रया रात्रिर्हता, मया तु जीवितं यावद अविस्मरणीयं कौतुकं दृष्टम्' | धर्मदत्तेनोक्तम्- किम् ?, कथम् ?, कदा?' | कुमारः प्राह- 'अद्य एकप्रहर या मिन्यां गतायाम्
॥४१५॥
Jain Education rematang
For Personal & Private Use Only
www.jainelibrary.org