SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ नवमः श्रीधन्य चरित्रम् | पल्लव: ॥४१४॥ न कोऽपि गृह्णाति, अतो मयैव ग्रहणं युक्तम् तथा पितुर्महत्त्वहानिर्न भवेत्, अस्य च दुःखं भञ्ज्यात् । पितुर्महत्त्वेऽखण्डिते ममैव महत्बुद्धिः पितुरपकीर्तुत्तारणात् सुपुत्रत्वख्यातिश्य' । इति विचिन्त्य कुमारेण प्रमाणपूर्वकं बीटकं गृहीतम् । तद् दृष्ट्वा राजा लोकाश्य चमत्कृताः सन्तः परस्परं वावदति-'अहं हि देवादिकृतच्छलस्य अज्ञातव्यतिकरोऽनिर्णीतस्थानसद्भाव: केनोपयेन कस्य साहाय्येन वा स्वर्णनरं वालयिष्यति ?, कथेच स्वप्रतिज्ञानिहिं करिष्यति!'।एवं महाश्वर्यत्वात् कार्यस्य दुःसाध्यत्वाच्च अनेकगत्या मन्त्रयन्ति । अथ कुमारो बीटकं गृहीत्वा धर्मदत्तेन सह सभातो निर्गतः । कुमारेण चिन्तितम्- यद्यस्य अधुनैव | स्वर्णपुरुषो दीयते तदाऽस्य मनसि काऽपि शङ्कोत्पन्ना भविषउयति, कार्यस्य च दुःसाध्यत्वं न भविष्यति ; प्रत्युत विचित्रवादका लोका असद्भूतोद्भावनं कृत्वाऽभ्याख्यानं दास्यन्ति अयमपि ममोपकारप्रौढत्वं न श्रद्धास्यति, अत्र महायशः प्राप्तिस्थानेऽल्पप्राप्तिर्भविष्यति । यद् यादृशं कार्यं तत् तदनुरूपाडम्बरपूर्वकमेव कर्तव्यम् अतो विलम्बकरणमत्र युक्तम्' । इति ध्यात्वा धर्मदत्तायोक्तम्-'स्वर्णनरः कस्मिन् स्थाने कृतः ?, तत्स्थलं दर्शय' । ततो धर्मदत्तेन सव्यतिकरं स्थानादिदर्शितम् । राजकुमारोऽपि शिरो धूनयन् धर्मदत्तं प्रत्याह'भो भद्र ! एष तु प्रबलशक्तिमता केनापि देवेन दानवेन विद्याधरेण वा तव स्वर्णनरो गृहीत; न तु सामान्येन, इति ज्ञायते । अतोऽत्र यदि रात्रौ स्थीयते तदा कयापिरीत्या तत्स्वरूपं ज्ञायते, | धर्मदत्तेनोक्तम्-'यथाज्ञा भवेत्, अहं तु भवतोऽनुचरोऽस्मि' । कुमारेणोक्तम्-'विना स्वर्णनरप्राप्ति नगरे न प्रवेक्ष्यामि, अतो माऽधृतिं विधेहि'। इत्यालापं कुर्वन्तौ तौ परिभ्रमणेन दिनपूर्तिं कृत्वा रात्रौ कस्मिंश्चिद् भव्यस्थले सुप्तौ । प्रथमयामे गते धर्मदत्रस्तु ४१४॥ Jain Education Interstone For Personal & Private Use Only Mww.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy