________________
श्रीधन्य
चरित्रम्
॥ ४१२ ॥
Jain Education Int
समग्रजीवितं यावत् सुखनिर्वाहस्तु सुराजसाद् भवतीति ध्यात्वा भवत्समीपमागतोऽहम् । अधुना तु भवतां यत् | शोभते तत् कुर्वन्तु, अतः परम् अन्यत्र कुत्रापि गन्तव्यं नास्ति; तयो नरेन्द्राद् अधिकः कोऽपि नास्ति । उक्तञ्च'शब्दमनमशठपालनमाश्रितभरणानि राजचिह्नानि । अभिषेकपट्टबन्धो वालव्यजनं व्रणस्यापि ' ॥१॥
44
हे स्वामिन् ! अहम् अतीवदुःखाब्धौ पतितो दुःखेन विह्वलीकृतहृदयो योग्यायोग्यं यत्तत् प्रलपामि तत् स्वामिना मनसि नानेतव्यम् । तयोऽतिदुःखपीडितानां बुद्धयो विसंस्थुला भवन्ति, 'दुःखिते मनसि सर्वमसह्यम्' इति वचनात् । अतो दुःखाब्धौ पतितस्य मम त्वमेव गतिः त्वमेव शरणम्, त्वमेवालम्बनम् । भवद्भिः कृपां कृत्वा समुद्धरणीयः " । एवं धर्मदत्तस्य विज्ञप्तिं श्रुत्वा सर्वे: सभ्यजनै राज्ञा च उपलक्षितः, परस्परं च वक्तुं लग्ना:- अहो ! श्रीपतिश्रेष्ठिनः पुत्रस्येदृशी अवस्था जाता!, अतो न केनापि धनादिगर्वः करणीयः' । अथ राजा धर्मदत्तं प्रति वक्तुं लग्न: - 'भो भद्र ! महासिद्धिरूपः स्वर्णनरः केनापि सिद्धेन गन्धर्वेण विद्याधरेण व्यन्तरेण वा हतो भविष्यति, स कथम् अल्पपुण्यस्य तव हस्ते समायायात् ? । पुनरीदृशः को भाग्यशाली दैवत - बलयुक्तः | साहसिकशिरोमणिः पुरुषो भवेद् यो बलवतः परस्य हस्ते गतं लात्वा तुभ्यं दद्यात् ? । तव दुःखं द्रष्टुम् अशक्ता | वयम्, अतो लक्षं कोटिमानं वा स्वर्णं यथेच्छं याचस्व, तत्परिमितं स्वर्णं स्वकोशाद् अहं ददामिट, तल्लात्वा सुखी भव' । धर्मदत्तेनोक्तम्- "देव ! स एव स्वर्णनरश्चेत् प्राप्येत तदा मे निर्वृतिः अन्यत्स्वर्णं तु न गृह्णामि । नाऽहं मार्गणोऽस्मि, अतो 'अन्यद् हाटकं गृहाण' इति पुनर्न वाच्यम् । यदि स्वभुजोपार्जितः स्वर्णनरः
For Personal & Private Use Only
नवमः
पल्लव:
|॥ ४१२ ॥
www.jainelibrary.org