________________
श्रीधन्य
चरित्रम्
॥ ४१० ॥
Jain Education Int
| मन्त्राच्छोटनैः स्वर्णपुरुषं निष्पादयिष्यामि !' । अघुना तु काष्ठपुरुषं मुक्त्वा मम पृष्ठमेव आच्छोटयति !, तदा किं ज्ञायते ?, ममैव मारणाय तु प्रवृतिं न करोति किम् ? । अस्य कथनं सत्यं चेद् भवेत् तदा यस्य निष्पाद्यमस्ति तदेव आच्छोटयेत्, परम् अयं तु मामाच्छोटयति, अतोऽत्र भव्यं न दृश्यते। 'जटिलस्य विश्वासो न कर्तव्य' इति नीतिशास्त्रेऽप्युक्तमस्ति" । इति विचार्य सर्वापन्निवारणसमर्थस्य सकलश्रुतसारस्य नमस्कारमहामन्त्रस्य - 'ॐ नमो अरिहंताणं शिरस्कं शिरसि स्थितम् ' इत्यादिना वज्रपञ्जरस्तोत्रेण आत्मरक्षा कृता । सर्वाणि वङ्ग वज्रपञ्जरस्तोत्रगताऽङ्गन्यासेन अभेद्यानि कृत्वा तदेव ध्यायन् स्थितः । योग्यपि यावद् अष्टोत्तरशतावधि | आच्छोटनविधिं समाप्य खड्गं सज्जीकर्तुं लग्नस्तावता कुमारेण वक्रदृष्ट्याऽवलोकनेन खड्गं सज्जयन् दृष्टः । चिन्तितं च-- एष तु मम वधाय निश्चयेन खङ्गं प्रगुणीकरोति, नाऽत्र कश्चिद् विलम्बः' । तत उत्पन्नबुद्धिना धर्मदत्तेन झटिति गुप्तरक्षितं खड्गं समादाय संमुखीभूय योग्येव हत्वा कुण्डान्तः पातितः । तदा | मन्त्रक्रियाप्रभावेण योगिशरीरस्य स्वर्णपुरुषो जातः, यतो यः परस्य निरपराधस्योपरि दुष्टं करोति स स्वयमेव तदुःखसङ्कटे पतति, नात्र सन्देहः । ततो धर्मदत्तेन चिन्तितं यद्- "अनेन पापिना प्रथमत एव कपटकलया धर्ममार्गवचनरचनया चाऽहं विप्रतारितः । परम् अतिपापप्रवृत्त्या स्वशस्त्रं स्वोपघाताय जातम्, अतो धिगस्तु लोभम् । यतः
“लोभस्त्यक्तो न चेत्तर्हि तपस्तीर्थफलैरम् । लोभस्त्यक्तो भवेत्तर्हि तपस्तीर्थफलैरलम्” ||१||
For Personal & Private Use Only
नवमः
पल्लवः
॥॥ ४१० ॥
ww.jainelibrary.org