________________
श्रीधन्य चरित्रम्
नवमः पल्लव:
॥४०९॥
योगिनोक्तम्-भद्र! वयं योगिनः स्वर्णपुरुषेण किं प्रयोजनम् ? |गुरुकृपातो नाऽस्माभिरीशंप्रायते; केवलं तव दारिद्यं दृष्ट्वा मम करुणोत्पन्ना, तेन त्वदर्थमवोपक्रमं करिष्ये'। इति तस्योक्तं श्रुत्वा धर्मदत्तेनोक्तम्-'सत्यं यूयं वदथ | भवादृशाः परोपकारकरणैकतत्परा भवन्ति । सज्जनाः कूपासवत् स्वदेहे दुःखमपि अङ्गीकृत्य परस्योपकुर्वन्ति । यतः
"कप्पासह सारिच्छडा विरला जणणी जणंत । नियदेह वफट्टे विपुण परगुह्यक ढंकंत" | तदा योगिनोक्तम्-- 'भद्र ! प्रथमतः ‘सपादलक्ष' पर्वतमध्यात् शीतोष्णे पानीये आनेतुमवलोक्येते' । ततो द्वावपि चलितौ । तत्र गत्वा शीतोष्णकुण्डयोः पानीये आनीते। ततो रक्तचन्दनकाष्ठमयः पुरुषप्रमाणः पुत्तलको योगिना घटितः । ततः सर्वोऽप्याहुतिसंयोगो मेलितः । अथ कृष्णचतुर्दशीरात्रौ द्वावपि श्मशानं गतौ । तत्राऽग्नि कुण्डनं कृत्वाऽग्निः प्रज्वालितः। ततो योगिना लोहरक्षामिषेणखङ्ग: पार्वेस्था पितः: तत्समीपे स्वयं निविष्टः । पुनर्धर्मदत्तस्योक्तम्-तवाऽपिलोहरक्षाऽस्ति?' तेनोक्तम्-'अस्ति किञ्चित् , परं भवदीया कृपाऽस्ति तदा रक्षया किं प्रयोजनम् ?'। इत्युक्त्वा, अनागतबुद्धित्वाद् वणिजः, किमपि हृदि विचिन्त्य गुप्तः खङ्गो रक्षार्थं समीपे धृतः अथ योगिना धर्मदत्त आत्मनोऽग्रतः स्थापितः । ततो योगी पूर्व क्रियाँ कृत्वा प्रान्ते स्वेप्सितफलसिद्धर्यं सर्षपान् अभिमन्त्रय धर्मदत्तस्य पृष्ठमेव आच्छोटयति । एवम् आच्छोटयत: कियती वेला लग्ना, तदा धर्मदत्तस्य चित्ते विकल्प उत्पन्नो यद्-“अनेन योगिना हि पूर्वं ममाग्रे उक्तमस्ति यद्- 'रक्तचन्दनघटितस्य पुरुषस्य
॥४०९॥
Jan Education
For Personal Private Use Only