SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ श्रीधन्य चरित्रम् नवमः पल्लवः ॥४०७॥ "जीवन्तोऽपि मऽताः पञ्च व्यासेन परिकीर्तिताः। दरिद्रो व्याधितो मुर्खः प्रवासी नित्यसेवकः "श एवं श्रुत्वा योगिनोक्तम्- "अहं 'दारिद्यकन्दकुर्दाल' इति बिरुदं वहे तस्माद् अहमेवं चिन्तयामि| "श्मयणदेव ईश्वर दह्यो लंक दहि रहणुएण। पांडुउवन अरजुन दहिउ पुण दालिदं न केण" ||१|| तेन ममेदृशीच्छा वर्तते-दारिद्यं दहामि"। इति श्रुत्वा हृष्टोधर्मदत्तोऽवदत्-'कथयतु' कथं भवता दारिद्यध्वंसनं करिष्यते?' योगिनोक्तम्-‘स्वर्णपुरुषं साधयामि' |धर्मदत्तेन चिन्तितम्-'जीवहिंसां विना स्वर्णपुरुषः साध्येत तदा तु वरं नान्यथा' । इति ध्यात्वोक्तम्-'भो योगीन्द्र ! पुरा श्रुतमस्ति यत् स्वर्णपुरुषो जीववधेन निष्पाद्यते, तत् सत्यम् अन्यथा वा?, इति तदुक्तं श्रुत्वा योगी 'हा ! धिक् हा धिक्' इति शब्दं कृत्वा, थूथूकारं कुर्वन् प्राह"तत 'श्रुतं यातु पाताले तच्चातुर्यं विलीयताम् । ते विशन्तु गुणा वहनौ यत्र जीवदया न हि ॥शा ददातु दानं विदधातु मौनं, वेदादिकं वाऽपि विदाङ्करोतु । देवादिकं ध्यायतु नित्यमेव, नचेददया निष्फलमेव सर्वम" ||२|| पुनर्योगी किन्नर्यातोद्यं करे गृहीत्वातद्वादनपूर्वकं लोकभाषया गोरखवाक्यानि गातुं लग्नः । तथाहि - "कंध जगोटी हाथ लंगोटी, एनहिं योगीमुदा। जीवदया विjधर्म नहिं रे, करे पाखंडी मुद्रा । जंपे गोरखसुण र बाबु ! ||२|| १. कामदेवः । २. हनुमता । ३. शास्त्रम् । ॥४०७॥ Jan Education Interational For Personal & Private Use Only www. library.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy