SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ श्रीधन्य चरित्रम् नवमः पल्लवः ॥४०७॥ "जीवन्तोऽपि मऽताः पञ्च व्यासेन परिकीर्तिताः। दरिद्रो व्याधितो मुर्खः प्रवासी नित्यसेवकः "श एवं श्रुत्वा योगिनोक्तम्- "अहं 'दारिद्यकन्दकुर्दाल' इति बिरुदं वहे तस्माद् अहमेवं चिन्तयामि| "श्मयणदेव ईश्वर दह्यो लंक दहि रहणुएण। पांडुउवन अरजुन दहिउ पुण दालिदं न केण" ||१|| तेन ममेदृशीच्छा वर्तते-दारिद्यं दहामि"। इति श्रुत्वा हृष्टोधर्मदत्तोऽवदत्-'कथयतु' कथं भवता दारिद्यध्वंसनं करिष्यते?' योगिनोक्तम्-‘स्वर्णपुरुषं साधयामि' |धर्मदत्तेन चिन्तितम्-'जीवहिंसां विना स्वर्णपुरुषः साध्येत तदा तु वरं नान्यथा' । इति ध्यात्वोक्तम्-'भो योगीन्द्र ! पुरा श्रुतमस्ति यत् स्वर्णपुरुषो जीववधेन निष्पाद्यते, तत् सत्यम् अन्यथा वा?, इति तदुक्तं श्रुत्वा योगी 'हा ! धिक् हा धिक्' इति शब्दं कृत्वा, थूथूकारं कुर्वन् प्राह"तत 'श्रुतं यातु पाताले तच्चातुर्यं विलीयताम् । ते विशन्तु गुणा वहनौ यत्र जीवदया न हि ॥शा ददातु दानं विदधातु मौनं, वेदादिकं वाऽपि विदाङ्करोतु । देवादिकं ध्यायतु नित्यमेव, नचेददया निष्फलमेव सर्वम" ||२|| पुनर्योगी किन्नर्यातोद्यं करे गृहीत्वातद्वादनपूर्वकं लोकभाषया गोरखवाक्यानि गातुं लग्नः । तथाहि - "कंध जगोटी हाथ लंगोटी, एनहिं योगीमुदा। जीवदया विjधर्म नहिं रे, करे पाखंडी मुद्रा । जंपे गोरखसुण र बाबु ! ||२|| १. कामदेवः । २. हनुमता । ३. शास्त्रम् । ॥४०७॥ Jan Education Interational For Personal & Private Use Only www. library.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy