SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ श्रीधन्य चरित्रम् नवमः पल्लव: ॥४०६॥ चिन्ता समुत्पन्ना-"हा मूढबुद्धे धर्मदत्त ! किं करोषि ?,क्व यासि ? | पुरा प्रथमतो भोगैकलम्पटेन त्वया पितुर्धन निर्णाशितम्; अहो ! तब मूढता, यत् पित्रोर्मरणमपि नाऽवगतम् । पुनस्तया निर्लज्जया नि:स्नेहस्वभावया साधारणस्त्रियाऽपमानं दत्त्वा निष्काशितो गृहमागतः । तया च कुलवत्या प्रियया पञ्चाशत् सहस्राणि दत्तानि, तान्यपि स्वकुबुद्ध्या विनाशितानि | अथ पुनह गत्वा निजमुखं कथं दर्शयिष्यसि ? | चेद् निर्लज्जो भूत्वा गृहे स्थास्यसि तथापि स्वजनाः परजनाश्व निर्धनं भाग्यहीनं मूर्खशेखरं त्वयि हसिष्यन्ति, तद्वचनानि कथं सहिष्यसे ?। यत: . "वरं वनं व्याघ्र-गजेन्द्रसेवितं. दुमालयः पत्र-फला-ऽम्बभोजनम। तृणानि शय्या वसनं च वल्कलं, न बन्धुमध्ये धनहीनजीवनम" ||१|| अतोऽधुना वनाश्रयणमेव वरम्" इति निश्वयं कृत्वा पश्याद्वलितो वनं गतः। तत्र च फलजलाहारेण प्राणवृत्तिं करोति । एवं वने तिष्ठन् अन्यदा एकेन विद्यासिद्धेन योगिना दृष्टः । तेन सुलक्षणवन्तं ज्ञात्वा प्रोक्तम्'भ्रातः ! कथं सचिन्त इव दृश्यसे ?' | तेनोक्तम्-'निर्धनानां कुतो निश्वन्तत्वम् ? यतः निर्द्रव्यो हियमेति हीपरिगतः प्रभंश्यते तेजसा, निस्तेजाः परिभूयते परिभवाद निर्वेदमागच्छति । निर्विण्णः शुचमेति शोकसहितो बुद्धेः परिभंश्यते, निर्बुद्धिःक्षयमेत्यहो! अधनता सर्वापदामास्पदम" ||२|| ॥४०६॥ Jain Education rematang For Personal & Private Use Only www.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy