________________
श्रीधन्य चरित्रम्
नवमः पल्लव:
॥४०५
परं सा हुङ्कारमात्रमपि न ददाति । पुनः क्षणं प्रतीक्ष्य बभाषे -
"एते व्रजन्ति हरिणास्तुणभक्षणाय, चूणि विधातुमथ यान्ति हि पक्षिणोऽपि ।
मार्गस्तथापि सुवहः किल शीतलः स्याद, उत्थीयतां प्रियतमे। रजनी जगाम" ||१|| तथापि किमपि न जल्पति । ततः स सम्मुखीभूय जल्पयन् द्रष्टुं लग्नस्तदा तत्र तां न पश्यति स्म । तदा चिन्तयितुं लग्नः- साक्व गता?, किमेतत् ? पूर्वमुत्थिता वा लघुबाधादिनिवारणाय गता ?'1क्षणं प्रतीक्ष्य शब्द कुरुते-'प्रिये ! समागच्छ समागच्छ' । परं नाऽऽयाता | तत उत्थाय परितो वीक्षितम्, परं न कुत्रापि पश्यति । तत्पदमपि पतितं न पश्यति । ततो मनसि चिन्ता जाता | वनं भ्रान्त्वा भ्रान्त्वा श्रान्तः, परं सा क्वापि न लब्धा । ततः प्रियावियोगविधुरः स प्रोक्तवान्-'हे हंसा! हे मयूरा ! हे हरिणा ! हे चम्पक ! हे अशोक ! हे सहकार ! मम | प्रियाशुद्धिं कथयत' । इत्यादि स्नेहव्याकुलो जल्पन् पुनः पुनः स्वापसथानमागत्य पश्यति, यत इह जगति मोहो दुर्जयः । एवं स्नेहनहिल इतस्ततः परिभ्राम्यति, विचिन्तयति च -
"यन्मनोरथशतैरगोचरं, यत् स्पृशन्ति न गिरः कवेरपि ।
सवानवृत्तिरपि यत्र दुर्लभा, लीलयैव विदधाति तद विधिः" ||२|| "देशाद्देशान्तरं यातु पुण्य-पापमयः पुमान । पुरः किञ्चित प्रतीक्षन्ते सम्पदो विपदोऽपि च" ||१|| इति विचिन्त्य, 'गृहमेव यास्यामि' इतिध्यात्वा, तच्चन्द्रपुरं प्राप्तः। अथ गोपुरे प्रवेष्टुंलग्नस्तावता पुनर्मनसि
॥४०५॥
For Personal & Private Use Only
www.jainelibrary.org
in Education