________________
श्रीधन्य चरित्रम्
॥ ४०४ ॥
Jain Education International
पुरोभूय हक्कितः - 'रे रे पापिष्ठ! बहुजीवघातक ! अद्य तव पादकं समुदितम् ; त्वां न मुञ्चामि, हन्म्येव' । इतिश्रुत्वा राक्षसः कोपाक्रान्तो यावद् उत्तिष्ठति तावता तेनैव खङ्गेन राक्षसो हतः । तद् दृष्ट्वा चमत्कृता धनवती तस्य भुजौ पुष्पैः पूजयामास । ततस्तौ निःशङ्कौ तत्र वने जातानां कदली- द्राक्षा-जम्बीरादिफलानाम् आहारं कुर्वन्तौ युगलिनाविव सुखेन तिष्ठतः । अन्येद्युः कान्तयोक्तम्- “प्राणेश ! धर्मं विना निरर्थकं जन्म याति । यतः'या जा वच्चइ रयणी, न सा पडिनियत्तइ । अहम्मं कुणमाणस्स, अहला जन्ति राइयो" ॥१॥ तथा - " येषां न विद्या न तपो न दानं, ज्ञानं न शीलं न गुणो न धर्मः । ते मृत्युलोके भुवि भारभूता, मनुष्यरुपेण मृगारन्ति " ||१|| कारणेन निवासभूमौ गम्यते तदा भव्यम् । तत्र गमने देव-गुर्वादीनां दर्शनं भवति । यतः"यस्मिन् देशे न सन्मानं वृत्तिर्न च बान्धवाः । न विद्यागमः कश्चिद् न तत्र दिवसं वसेत्" ॥१॥ ततस्तौ तत्स्थानाच्चलितौ । क्रमेण काश्मीरदेशे चन्द्रपुरासन्नवने प्राप्तौ । अन्यदा सन्ध्यायां वनमध्ये निर्विण्णौ क्वापि विश्रान्तौ । अथ धर्मदत्तः पाश्चात्यरात्रिसमये सूर्योदयात् पूर्वं प्रबुद्धो लीलया प्रियां प्रबोधयितुं लग्नः । यथा"प्रोज्जृम्भते परिमलः कमलावलीना, शब्दायते क्षितिरुहोपरि ताम्रचूडः । शृङ्गं पवित्रयति मेरुगिरे विवस्वान्, उत्थीयतां सुनयने । रजनी जगाम ॥१॥
१. या या व्रजति रजनी न सा प्रतिनिवर्तते । अधर्मं कुर्वतोऽफला यान्ति रात्रयः ॥ १ ॥
For Personal & Private Use Only
| नवमः पल्लवः
॥ ४०४ ॥
w.jainelibrary.org