________________
श्रीधन्य
चरित्रम
॥ ४०३ ॥
1
ECC:,
| समानीतः । हे सत्पुरुष ! त्वां दृष्ट्वाऽहं चिन्तयामि- 'हे विधे ! कथमहम् अभाग्यवती सृष्टा ? ; पूर्वं हि पित्रोर्वियोग , साम्प्रतं च अस्य पुरुषस्य विनाशवीक्षणाय स्थापिताऽस्मि ” । इत्युक्त्वा पुनः प्राह- 'हे सत्पुरुष ! भवान् कुत्रत्यः ? सत्यं कथयतु' । इति तयोक्तं श्रुत्वा धर्मदत्तः स्मितपूर्वकं प्राह- भद्रे ! यस्त्वयोक्तः स तु अहमेव । भद्रे ! मम स्थाननामादिकं त्वयैव प्रोक्तम्, किमन्यत् कथयामि ?, किं माम् अन्यत् पृच्छसि ?' । इति श्रुत्वा सा सम्भ्रान्त | यावज्जाता तावता तस्या वामभुजः स्फुरितः । तदा च सा प्रमोदं प्राप्ता व्यचिन्तयत्- 'एतत् शुभोदयसूचकं चिह्नम्, | तेनायम् इष्टसंयोगोऽपि कुशलत्वसूचको भासते, परन्तु हार्दं जिनो वेत्ति, । इति विचिन्त्य धीरत्वं प्राप्ता सती 'एष एव ममेप्सितो धर्मदत्तो धात्रा मेलितः, इति निश्चयं कुर्वती लज्जां लेभे । तदा धर्मदत्तेनोक्तम्- 'भद्रे ! यद्यप्यावयोर्योगो दैवेन कथमपि मेलितः परं विमृश्य कथय लग्नदिनं कदा प्रोक्तमस्ति ?' तयापि विमृश्य | दिननिर्णयं कृत्वा प्रोक्तम् ' तद्दिनं तु अद्यैव, एषैव वेला' । तेनोक्तम्- 'तदा कल्याणवेला कथं मुच्यते ?' । तयोक्तम्'एवमस्तु' । ततस्तेन सा शुभयोगे परिणीता । अथ तया प्रोक्तम्- 'प्राणेश ! पाणिग्रहणं तु कृतं, बहुदिनेप्सितं कार्यं सिद्धम्; परं राक्षसभीतिस्तथैवाऽस्ति' । तेनोक्तम्- 'क्वाऽस्ति राक्षसः ?' । तयोक्तम्- - ' तस्मिन्नेव सरसि | स्नानं कृत्वा, खङ्ग पार्श्वे विमुच्य, देवार्चां कृत्वा, देवान् स्तुवन्नस्ति । स च सेवां यावद् मरणान्तेऽपि तत्सथानाद् | नोत्तिष्ठति' । तदा धर्मदत्तेनोक्तम्- 'अहं तत्र गत्वा राक्षसं हन्मि । तयोक्तम्- - 'चेद् ईदृशी धीरता तर्हि एषैव | वेलाऽस्ति' । एतच्छ्रुत्वा एष उत्थायाऽग्रे चलितः, पृष्ठतः शनैः शनैः साऽपि गता । अथ धर्मदत्ते दूरतः सेवां कुर्वन् | राक्षसो दृष्टः ततः शनैः शनैरलक्ष्यतया पादन्यासं कुर्वता तत्पृष्ठतो गत्वा, सहसा तं खङ्गं लात्वा, धैर्यं धृत्वा
Jain Education International
For Personal & Private Use Only
नवमः
पल्लवः
|| 803 ||
www.jainelibrary.org