SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ नवमः पल्लव: मत्पिताऽपि तां दृष्ट्वा हर्षितः, परं भाग्योदयं नष्टं दृष्ट्वा खिन्नः । तदा तेनोक्तम्-'एष धर्मदत्तः षोडशसुवर्णश्रीधन्य । कोटिस्वामी भविष्यति, नाऽत्र सन्देहः' तदा श्रेष्ठिनोक्तम्-'तेनैव सह एनां पुत्रीं विवाहयिष्ये । यत:चरित्रम् "कुलं च शीलं च सनाथता च, विद्या च वित्तं च वपुर्वयश्च । वरे गुणाः सप्त विलाकनीयासततः परं भाग्यवशा हि कन्या ||१|| मूर्ख-निर्धन-दूरस्थ-शूर-मोक्षाऽभिलाशिणाम। त्रिगुणाऽधिकवर्षाणामपि देया न कन्यका" ||२|| ॥४०२॥ .. अथ तेन गणकेन लग्नं विलोकितम्; निर्णयं च कृत्वोक्तम् 'अस्मिन् वर्षे शुद्धम् अष्टादशदोषरहितं लग्नमेकमेवाऽस्ति माधवशुक्लपञ्चमीदिनेऽर्धाधिकप्रहरद्वयसमये' । तच्छुत्वा श्रेष्ठिनोक्तम्-'तल्लनमन्तरा स्तोकदिनाः सन्ति । अथ तस्यामन्त्रणं क्रियेत, स चाऽऽगच्छेत्, एतावानपि समयो नास्ति । भव्यलग्नमपि न मोक्तव्यम्, अतः पुत्रीमादाय वयं तत्र यास्यामः' । इत्युक्त्वा गणकाय प्रीत्या भूरिदानं दत्त्वा विसर्जितः । पोतं च सज्जीकृत्य स्वकलत्र-पुत्रीयुत: प्रवहणे चटितः । प्रवहणमपि पवनप्रेरितं शीघ्रगत्या चलति । क्रमेणार्धपथे गते दैवयोगात् प्रतिकूलपवनयोगेन प्रवहणं भग्नम् । आयुःसम्बन्धाद् मया हस्ते फलकं लब्धम् तेनाधारेण तरन्ती सप्तमे दिने तीरं प्राप्ता । वनमध्ये सरोवरपयः पीत्वा श्रमखिन्ना तरुतले यावत् सुप्ता तावता राक्षसेनोत्पाट्य अत्र मुक्ता | ततो मां भयेन कम्पमानाङ्गीं दृष्ट्वा राक्षसेनोक्तम्-'मा भैषीः, सप्तदिनावधि क्षुधितस्याऽपि मम त्वां | 'दृष्ट्वा कृपोत्पन्नाऽस्ति, अतो यावद् अन्यद् भक्ष्यं लप्स्ये तावत् त्वां न भक्षयिष्यामि' । इत्युक्त्वा गतेन तेन त्वं १. विलोक्य । ||४०२॥ Main Education in For Personal & Private Use Only - Alww.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy