SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ श्रीधन्य नवमः पल्लवः चरित्रम् ॥४०१॥ रुद्रो येन कपालपाणिपुटके भिक्षाटनं कारितः, सूर्यो भाम्यति नित्यमेव गगने तस्मै नमः कर्मणे ||१|| अधटितघटितं घटयति, सुघटितघटितानि जर्जरीकुयते। विधिरेव तानि धटयति, यानि पुमान्नैव चिन्तयति" ||२|| तेनोक्तम्-'कथमीदृग् जातम् ?'| साऽवोचत्-"तर्हि श्रूयताम् - सिंहलद्वीपे कमलपुरं नाम नगरम् । तत्र यथार्थनामा धनसारः श्रेष्ठी, तस्य धनश्री: प्रिया, तत्पुत्र्यहं पित्रोः प्राणेभ्योऽप्यतीव वल्लभा। अहंक्रमेण प्रवर्धमाना यौवनं प्राप्ता । तदा पित्रा विचिन्ततम्-'अस्या अनुरूपइभ्यपुत्रो गवेषयितव्यः । परम् एषा पुत्री तस्यैव दातव्या यस्य जन्मपत्रिका अस्या जन्मपत्रिकया सह राशि-गण-वर्णनाडी-स्वाम्यादिभिर्मिलेत्, भाग्योदयवांश्य यो भवेत् तेन सह योजनं करिष्यामि' एवं विचिन्त्य अन्येषाम् इभ्यपुत्राणां जन्मपत्रिका विलोकेयति परं केनाऽपि सह नवसु स्थानेषु अविरोधगत्या न मिलति । एवं बहूनाम् इभ्यपुत्राणां जन्मपत्रिका विलोकिताः, परं काऽपि न मिलति । अन्यदा चन्द्रपुराद् एको ज्योतिर्विद् गणक आगतः । तस्य च मत्पित्रा सह मिलनं जातम् । गणकं ज्ञात्वा | समीपस्थां माम् उद्दिश्य पित्रा पृष्टम्-'एषा मत्पुत्री, अस्या जन्मपत्रिकया सहसर्वत्र विलोकने विरोधिग्रहादि दृश्यते । तदा तेन गणकेन तां जन्मपत्रिकां विलोक्योक्तम्-'श्रेष्ठिन् ! चन्द्रपुरे श्रीपतिश्रेष्ठीपुत्रो धर्मदत्तनामा, तस्य जन्मपत्रिका मया कृताऽस्ति, तस्य जन्माक्षरैः सह सर्वरीत्या मिलति' । ततो भूर्जपत्रे लिखित्वा दर्शिता, ॥४०१॥ Bain Education in For Personal & Private Use Only ww.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy