________________
नवमः
श्रीधन्य चरित्रम्
पल्लवः
॥४००
तथा "खल्वाटो दिवसेश्वरस्य किरणैः सन्तापितो मस्तके, वाञ्छन देशमनातपं विधिवशात्तालस्य मूलं गतः । तत्राप्यस्य महाफलेन पतता भग्नं सशब्दं शिरः,
प्रायो गच्छति यत्र भाग्यरहितस्तत्रापदां भाजनम ||१|| अतो यदाऽहं समुद्रान्निर्गतस्तदा राक्षसेन गृहीतः!, तत् किं करोमि ?, अतो यद् भाव्यं तद् भवतु, किं भीतेन ? | यतः -
"तावद्भयाद्धि भेतव्यं यावद् भयमनागतम। आगतं तु भयं दृष्ट्वा प्रहर्तव्यमभतवत्" ||१|| यद् जिनैदृष्टं तद् भविष्यत्येव" । इति दृढचित्तो विचारयति । यावता तु क्वापि स्थाने स्वं मुक्तं ज्ञात्वा नेत्रे उन्मील्य पश्यति तावता तु राक्ष्सं नाऽपश्यत्, किन्तु वृक्षच्छायाऽऽश्रिताम् एकां दिव्यरुपां कन्याम् अद्राक्षीत् । तां दृष्ट्वा तु विस्मतश्चिन्तयति-'किं राक्षसः कन्यारुपो जातः ?, वाऽन्येयं कन्या काचित् ?' | किमियं पातालकुमारी ?; खेचरी वा ?, अमरी वा काचित् ?' | इति विचिन्तयन् साहसं धृत्वा प्रोचे-'हे बाले ! का त्वम् ?'|तयोक्तम्-'कस्त्वम्?' |कुमारेणोक्तम्-मानवोऽहम्' । तयाप्युक्तम्-'मानव्यहम्, । तेनोक्तम्-कुतोऽत्र विषमवने तिष्ठस्येकाकिनी ?'। साऽवादीत्-'दैवी गतिर्विषमा । यतः
ब्रह्मा येन कुलालवनियमितो ब्रह्माण्डभाण्डोदरे, विष्णर्देन दशावतारगहते क्षिप्तः सदा सङ्कटे।
॥४०॥
Jain Educationpanel
For Personal & Private Use Only
!ww.jainelibrary.org