________________
श्रीधन्य चरित्रम
॥ ३९९ ॥
कर्कोटकद्वीपं प्रति प्रवहणं वाहितम्, तदाधारेण समुद्रम् अतिक्राम्यन् प्रियाशिक्षां च संस्मरन् कतिपयदिनैस्तटं प्राप्तः । ततो निर्गत्य भीषणं समुद्र पश्यन् तृषितो बभाषे -
I
“वेलोल्लालितकल्लोल ! धिक् ते सागर ! गर्जितम् ।
यस्य तीरे तृषाक्रान्तः पान्थः पृच्छति कूपिकाम्” ||१२||
इति कथयन् वेलावने परिभ्राम्यन् एकं जलपूर्णं तटाकं विलोक्य हष्टश्चिन्तितवान् - "पृथिव्यां त्रीणि रत्नानि जलमन्नं सुभाषितम् । मूढैः पाषाणखण्डेषु रत्नसंज्ञा विधीयते " ॥१॥ ततो वस्त्रेण गालयित्वा मिष्टं जलं पपौ । तस्यां च पालितरुच्छायायां समुद्रोल्लङ्घनजातश्रमो विविधां चिन्तां कुर्वन् निद्रामुकुलितनेत्रः सुष्वाप, तावता स केनाप्युत्पाटितः । प्रबुद्धः सन् स्वयं तज्ज्ञात्वा पश्यति तदा तु प्रौढ-देहं भयङ्करं राक्षसं दृष्ट्वा भीतः पुरनेत्रे सम्मील्य चिन्तयति - “विचित्रा कर्मणां गतिर्दुर्निवारा । यतःछित्त्वा पाशमपास्य कूटरचनां भक्त्वा बलाद् वागुरां, पर्यन्ताऽग्निशिखाकलापजटिलाद् निःसृत्य दूरं वनात् । व्याधानां शरगोचरादतिजवेनोत्प्लुत्य धावन् मृगः ; कूपान्तः पतितः करोति विमुखे किं वा विधौ पौरुषम् ?” ॥१॥
Jain Education intonal
For Personal & Private Use Only
नवमः पल्लवः
॥ ३९९ ॥
www.jainelibrary.org