SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ श्रीधन्य नवमः पल्लव: ॥३९८॥ अहो! अस्या अवितथस्नेहसम्बन्धत्वम् !'। अथ तेन द्रव्येण व्यवसायं कर्तुं प्रवृत्तः, परं कोटिध्वजपुत्रत्वेन स्वल्पद्रव्यव्यवसायकरणे लोकानां वचनानि शृणोति यत्-'अयं धर्मदत्ताऽधुना कीदृशं परिमितव्यापारं करोति?, द्रव्यनाशे किं कुर्यात् ? | पुरा तु अस्य जनकवारके सत्यङ्कारार्पणे कोटिकोटिमूल्याः क्रय-विक्रया आसन्, अधुना तु अवसराऽनुकूलं करोति' । इत्यादिकां लोकानां वार्तां श्रुत्वा लज्जते यद् अहं पितृतोऽतीव हीनपुण्यः स्वदोषेणैव जातः । अथैकदा उदासीनो भूत्वा गृहे गत्वा प्रियां प्रति प्राह -'प्रिये ! अहं क्रय-विक्रयं कर्तुं समुद्र गमिष्यामि | यत: "इक्षुक्षेत्रं समुद्रश्च जात्यपाषाण एव च । प्रसादो भूभुजां चैव सद्यो ध्नन्ति हरिद्रताम्" ||२|| - सा प्रोचे- प्राणेश! समुद्रगमनम् अतिदुष्करम् । प्राप्तिस्तु पुण्याऽनुसारिणी सर्वत्र भवति, यथा सिन्धौ सिन्धु मानं, सरसि सरःप्रमाणं, घटे च घटमात्रमेव पानीयमागच्छति' । एवं प्रियोक्तं श्रुत्वा धर्मदत्तः प्राह - "विद्यां वित्तं च सत्वं च तावन्नाप्नोति मानवः । यावद्द्धमति नो भूमौ देशाद्देशान्तरंभृशम्" ||१|| अतो देशान्तरं समुद्र तीर्वा गमिष्यामि | भाग्यं हि यद् द्रव्य-क्षेत्र-काल-भावैर्निबद्धं तत् तथैव, परं द्रव्या दिसंयोगे फलति, नान्यथा | तस्मात् तत्क्षेत्रप्रत्ययिकं कदाचिद् भवेत् तदा इह कथं प्राप्येत ?" | एवं स प्रियां प्रत्युत्तरं दत्त्वा, स्वजनेभ्यः स्वगृहादिशिक्षां दत्त्वा, तत्तद्देशार्ह पण्यं लात्वा, सज्जीकृतप्रवहणे चटितः । Jain Education For Personal & Private Use Only Mww.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy