________________
श्रीधन्य
नवमः पल्लव:
॥३८५॥
सङ्गीतशास्त्रविशारदः पण्डितप्रियोऽस्ति तम् अये कृत्वा भवत्समीपे आनेष्यामः । भवद्भिस्तस्य चित्तमालादनीयम्। आह्लादितः स बहुद्रव्यं दास्यति । अपरिमितधननायकोऽस्ति, किंबहुना?, जङ्गमः कल्पपादपोऽस्ति' । तेनाप्युक्तम्- बहु भव्यम् ! शीघ्रमानीयताम्, । पुनस्ते प्रभाते धर्मदत्तस्य समीपमागताः । तत्र विनयवार्तादिना कुमारमालाद्य, अवसरं प्राप्य गतदिनकृतः सङ्केतो ज्ञापितः । कुमारेणोक्तम्-'गम्यते एव' | ततः सेवकै रथो प्रगुणीकृत्य शीघ्रमानीतः। तस्मिन् रथे द्यूतकारकैःसहाश्ववारिकां कृत्वा अनेक सेवकैः परिवृतो नगराश्चर्याणि पश्यन् सङ्गीतकारगृहे गतः । तेनाऽपि बहादर-सत्कार-सम्मानं दत्त्वाऽतिरमणीय-गृहपश्याद्भागे वाटिकायां भवभद्रासने स्थापितः, पुष्प-ताम्बूलादिकं चाग्रे धृत्वा सपरिकरः सम्मानितः। ततो विविधताल-ताम-मान-लयग्रह-मात्रा-मूर्च्छनादिभेभिन्नं अनेकरसा-ऽलङ्कारगर्भितं गीतगानं कर्तुं प्रवृत्तः । कुमारोऽपि भद्रासनस्थितः शृणोति । अन्तराऽन्तरा गीतगानाऽलङ्कारान् नायक- नायिकाभेदान् स्थायिसात्विकादिरसोत्पत्तिकारकविभावाऽनुभावादिभेदान् वा व्यक्तीकृत्य कथयति, हार्दचकुमारस्य पृच्छति।कुमारोऽपि शास्त्राऽभ्यासदृढत्वात्तत्स्वरूपं वक्ति, तदा सङ्गीतकारक उत्थाय प्रणामं कृत्वा श्लाघां करोति-'अहो'कुमारस्य बुद्धिकौशल्य्' एवं तेन पुनः पुनश्यातुर्यं वर्णयता कुमारस्य चित्तमालादितम् तेन कुमारः कर्णं दत्त्वा एकतानो भूत्वा सहर्षं शृणोति । एवं प्रहरद्वयं यावत् तेन कला दर्शिता, कुमारोऽपि रञ्जितः। तदा द्यूतकारैः कुमारस्योपकर्ण गत्वोक्तम् । 'अस्मै किमपि दातुमुचितम्' । कुमारेणोक्तम्-'बहु भव्यम्, दानं तु प्रथममेवोचितम् । तदा द्यूतकारैः श्रेष्ठिगृहात् कुमाराऽभिधानं दत्त्वा धनमानीयाऽये धृतम् । कुमारोऽपि चातुर्यप्रियत्वाद् औदार्यगुणत्वाच्च सर्वं तस्मै दत्त्वा 'पुनरागमिष्याम' इत्युक्त्वोत्थितः। ततो वाटिकां पश्यन् गृहमागतः । मार्गे द्यूतकारकैः पृष्टम्-'स्वामिन् !
13॥३८५॥ कीदृशोऽयम् ?' कुमारेणोक्तं-'संगीतकलायां भव्यरोऽस्ति पुनर्गमिष्यामः।' ततो गृहमागत्य भोजनादिकं कृत्वा
in Educatierra
For Personal & Private Use Only
www.jainelibrary.org