SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ चरित्रम् | नवमः पल्लव: ॥३८४॥ कुमारेणापि शास्रार्थिनो ज्ञात्वाऽऽदरः कृतः। कथितं च - ‘प्रत्यहं सुखेनागम्यताम् । ततः सर्वेऽपि दुरोदरिका श्रीधन्य... नित्यं कुमारस्य पार्श्वे तिष्ठन्ति । कुमारो यद् यद् वदति तत् तत् सविस्मयं शिरोधुन्वन्तः शृण्वन्ति, श्लाघां च | कुर्वन्ति । एवं कुर्वद्भिस्तैः कतिपयदिनैः कुमारस्य चित्तमावर्जितम् । ___ अथैकस्मिन् दिने सङ्गीतशास्रवार्तायां वर्तमानायाम् एकेन दुरोदरिकेणोक्तम्-“भोः कुमार! अस्मिन् शास्त्रे एकोऽद्वितीयो विशारद आगतोऽस्ति । वयं तत्सङ्गीतं श्रुत्वा चित्ते परमाऽऽह्लादमात्रं प्राप्ताः, परं तस्य हार्द ज्ञातुं | वक्तुंचाऽसमर्थाः । तेन सङ्गीतशास्त्रविशारदेनोक्तम् -अत्र नगरेमर्मज्ञाता कोऽप्यस्ति यो मदुक्तस्य हार्द गृहीत्वा प्रत्युत्तरं दद्यात् ?, अस्माभिरुक्तम्-'आमस्ति' । तेनोक्तम्-'तर्हि तस्य मिलनं कारयन्तु भवन्तः'। अत: श्वोदिने भवदिच्छा भवति चेत् तदा तत्रागम्यताम् । 'भावांस्तु सर्वशास्त्रार्थपारीणः, परं सोऽपि सज्जनवरोऽस्ति मनुष्योपलक्षकोऽस्ति, गुणग्राही सभ्यवरोऽस्ति । भवन्तं दृष्ट्वा प्रसत्तिपात्रं भविष्यति । भवानपि ज्ञास्यति यद् अयमपि निपुणाऽग्रणी:" | इति श्रुत्वा शास्रविनोदरसिकः कुमारः प्राह-'स कुत्र परिवसति ?' | तैरुक्तम्'अमुकवाटिकायाः समीपेऽस्ति' । कुमारेणोक्तम्-'श्वो गमिष्यामः, | इति श्रुत्वा ते प्रमोद प्राप्ताः । ततः श्रेष्ठिसमीपे गत्वा तैरुक्तम्-“श्रेष्ठिन् ! किञ्चिद् अनुकूलस्तु अस्माभिः कृतः। प्रभाते इमं नेष्यामः अतो द्रव्यस्याज्ञा दीयताम् । द्रव्यं विना रसरङ्गवार्ता न जायते' | ततः श्रेष्ठिना द्रव्यरक्षकायोक्तम्-'एते यद् मार्गयन्ति तद् दीयताम्' । ततस्तैः कियद् धनं लात्वा, एको राज्ञो माननीयः संङ्गीतशास्त्रविशारदोऽस्ति तत्समीपे गत्वा' किमपि भव्यं वस्तु अग्रे ढौकयित्वोक्तम्-'श्वोऽमुकवाटिकायां भवद्भिरागन्तव्यम्। वयं तत्र नगरमुख्यमहेभ्यपुत्रः ॥३८४॥ Jain Education For Personal & Private Use Only Twww.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy