SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ श्रीधन्य चरित्रम नवमः पल्लव: ॥३ M स्त्रीविलासविलसन-वस्त्राभूषण परिधान-वनोपवनगमन- सरागरसगीतश्रवणादिसांसारिकसुखाऽऽसक्तिलेशमात्रोऽपि नास्ति प्रतिक्षणं शास्त्र मेवाऽभ्यस्यति | गृहस्थानां तु एक साधने गृहस्थधर्मो न निर्वहति, गुवभिरपि गृहस्थानां त्रिवर्गसाधनमुक्तम्। यूयं निपुणा: स्थ,शास्राऽभ्यासच्छलेन अस्य पार्श्वे तिष्ठत, पुनर्यथावसरे वार्तानुकूलकरणादिना अस्य चित्तं संगृह्य वनोपवनगमन-रागरङ्गादिश्रवणादिषुरसिक: कर्तव्यः। यतो यस्य सर्वशास्त्रेषु परिचयो विशदरीत्याऽस्ति स यत्र स्थाने गृहीत्वा गम्यते तत्र तत्र तस्य चित्तं हार्दग्राहित्वात् प्रमोदमनुभवति, निपुणत्वात्, परम् अग्रेतनाश्वेत् स्वस्वकलायां अतीवकुशला भवन्ति, नान्यथा । किंबहुना ?, अद्यप्रभृति धर्मदत्तो भवदीयहस्ते समर्पितः , येन केन प्रकारेण भोगरसिकः कर्तव्यः । द्रव्यस्य चिन्ता न कार्या, सर्वमहं पूरयिष्ये' इति श्रेष्ठिवचः श्रुत्वा दुरोदरिका हृष्टाः यत 'इष्टं वैद्योपदिष्टम्' इति न्यायेन तेषां समीहितं संजातम् । परस्परं च मन्त्रयितुं लग्नाः- 'वयं कुमारम् उद्दामकलाकुशलगृहे नेष्यामः, तदा स इमं महेभ्यपुत्रं ज्ञात्वाऽस्य चित्तावर्जनार्थम् अत्यद्भुतां स्वकलां दर्शयिष्यति, तदा वयमपिद्रव्यव्ययेन अपूर्वाऽपूर्वाणि कातैकानि दर्शयिष्यामः । द्रव्यव्ययस्तु अस्यैव श्रेष्ठिने भविष्यति, वयं तु प्राप्तं मानुष्यं फलेग्रहि करिष्यामः। आत्मीयां खान-पानदिप्रवृत्तिं चित्तनुकूलां करिष्यामः | परमो निधिर्हस्ते चटितोऽस्ति,नाऽत्र कस्यापि शङ्का । इतिपरस्परमामन्त्र्य,श्रेष्ठ्यादेशं प्राप्य, भव्यवस्रादिशोभां कृत्वा, कुमाराभ्यर्णे गत्वा,जोत्कार-प्रणामादिकं कृत्वा स्थिताः प्राहः-"स्वामिन् ! भवतां शास्त्रनैपुण्यकीर्तिः स्थाने स्थाने श्रुत्वाऽस्माकमपि मनोरथो जातो यद-'वयं कुमारस्याऽभ्यर्णे यामः, यथा शास्त्रस्य किमपि लेशं प्राप्नुमः , | अतः कर्णान् पवित्रयितुं भवदभ्यर्णे आगताः स्मः, अतो भवान् कृपां कृत्वा कर्णानां पारणकं कारयतु" इत्युक्त्वा सविनयं कुमारसीपे स्थिताः । Jain Education Interational For Personal & Private Use Only www.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy