________________
श्रीधन्य
चरित्रम्
॥ ३८२ ॥
Jain Education Ins
"काके शौचं द्यूतकारे च सत्यं सर्पे क्षान्तिः स्त्रीषु कामोपशान्तिः । क्लीबे धैर्यं मद्यपे तत्त्वचिन्ता, राजा मित्रं केन दृष्टं श्रुतं वा ? ' ॥१॥
इत्यादयोऽनेके दोषा द्यूतकारेषु प्रोक्ताः यत एते दुष्टाः पापिनः कुमार्गगामिनः, एषां सङ्गतिं कारयितुम् अर्होऽयं स्वच्छोदकस्वभावः पुत्रः । यादृशो निमित्तसंयोगो योक्ष्यते तदनुरुपोऽयमपि भविष्यति, तदा पुनः शोचनीयो भविष्यति । अधुनाऽयं गुणभाजनमस्ति तदा पुनरयं दोषाकर आत्मीयगृहविगोपको भविष्यति । प्रिये ! पुत्रादीनां कतिचित्पदार्थानां गुण-दोषप्रबलत्वं संसर्गानुरूपं भवति । अत्र तापसभिल्लगृहीतशुकयुग्मोदाहरणम् । एवं सन्मार्गगामी पुत्रः कुमार्गगामी भविष्यति, ततः कुसङ्गतिजन्यो दोषो | केनापि स्फेटयितुं शक्यः " । एवं श्रेष्ठिना विशदरीत्या बोधिता, तथापि स्त्रीणां तुच्छमतित्वात् तथा भवितव्यता योगाच्च श्रेष्ठिन्या न मानितम्। सा हि पुनः पुनः प्रेरयति । ततो बह्वाग्रहेण श्रेष्ठिचित्तमपि भ्रान्तम् । यतः -
"जे गिरुया गंभीर थिर, मोट्टा जेह मरट्ट । महिला ते भमाडिया, जिमकर धरिय घरट्ट" ॥१॥ "रे रे यन्त्रक ! मा रोदी: के कं न'भ्रामयन्त्यमूः। भुवः प्रक्षेपमात्रेण कराकृष्टस्य का कथा ?” ||१|| ततः श्रेष्ठिन्या अत्याग्रहात् श्रेष्ठिना द्यूतकारानाहूय प्रोक्तम्- - 'एष मम पुत्रो मुनिजनसंसर्गात् केवलं धर्मादिशास्त्रश्रवण-पठन-पाठन परावर्तनादिषु कालं गमयति, परं खान-पान - कौतुकदर्शन
१. स्त्रियः ।
For Personal & Private Use Only
नवमः
पल्लवः
॥ ३८२॥
www.jainelibrary.org