________________
नवमः
श्रीधन्य चरित्रम्
पल्लव:
३८१॥
शास्रेषु कुशलत्वात् सदा शास्त्ररसे मनः क्षणमपि पुस्तकं हस्ताद्न मुञ्चति। स नवनवशास्त्रविनोदेन गतकालमपि न जानाति | कदापि स्त्रीविलासः स्मृतिपथेऽपि नायाति | स्वप्नेऽपि प्रमदाया नामाऽपि न गृह्णाति; शास्त्ररसाऽऽस्वादनेऽतिलम्पटत्वाद्, न तु द्वेषबुद्ध्या । एवं कियत्यपि गते काले तत्सर्वं जनन्याऽवगतम् । तया एकान्ते स्थापयित्वोक्तम्-'वत्स ! अत्मीयं गृहं मुख्यम्, इति ज्ञात्वा महेभ्येन स्वकीयपुत्र्याः सांसारिक सुख प्राप्त्यर्थं विवाहः कृतः, अस्माभिश्च परकीया पुत्र समानीता। त्वं तु तस्या शुद्धिमात्रं न लासि | स्त्रीणां तु सर्वसुखेषु भर्तृमानं प्रथमं सुखम्; तत्सुखं विना सर्वाणि सुखानि भाटकसदृशानि, | इत्यादिभिर्बहुभिः, प्रकारैर्विज्ञप्तः परं मौनमाधाय सर्वं श्रुत्वा 'वरम्, वरम्, हु' इति कृत्वा पुनः पठनोद्यमे लग्नः । तदा श्रीमत्या भर्ने कथितम्-“अयं तव पुत्रः सर्वशास्त्रेषु कुशलोऽपि मूर्ख एव दृश्यते, गृहव्यवहारमूर्खत्वात् । यतः___ "काव्यं करोतु परिजल्पतु संस्कृतं वा, सर्वाः कलाः समधिगच्छतु वाच्यमानाः।
लोकस्थितिं यदि न वेत्ति यथानुरूपां, सर्वस्य मूर्खनिकरस्य स चक्रवर्ती" ||१|| अत: कारणाद् अयं पठितमूर्खः साक्षात् शृङ्ग-पुच्छरहितःपशुरेव । यथा वेद-वैद्यक-व्याकरण-प्रमाणलक्षण-ज्योतिर्विशारदानां पठितमूर्खाणां कथा प्रसिद्धा, तत्तुल्योऽयमपि । अतो यदि पुत्रं मनुष्यगणनायाम् आनेतुमिच्छा भवति तदा स द्यूतकारेभ्य: समर्प्यः, यथा स्तोकैरेव दिवसैर्निपुर्णः करिष्यते, नो चेद् हस्ताद् गतो ज्ञेयः" । श्रेष्ठी प्राह-"प्रिये ! एषा बुद्धिर्न शोभना, यतः
|||३८१॥
Jain Education
For Personal & Private Use Only
Mww.jainelibrary.org