SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ श्रीधन्य चरित्रम् | नवमः पल्लव: ॥३८०॥ विविधाभूषणवस्रादिपरिधापनादिमनोरथसुखं तु अनुभविष्यामि | तथा 'वन्ध्योऽयम्' इति गालेरुत्तरं तु || भविष्यति । तथा भव्यगृहे विवाहमेलनादिपरस्परव्यवहारस्थित्या दानग्रहणाद्यत्सवे उत्तममनोरथाः सफला भविष्यन्ति | पुनरविच्छिन्नसन्तानपरम्परा वर्धिष्यते । सौख्याऽसौख्यदायिवार्ता तु तदनन्तरं यौवनवयसि प्राप्ते प,वाद् ज्ञास्यते, अक्फिलं तु हस्तगतमेव" | इति चिन्तयन् शेषरात्रिमतिवाह्य, प्रगे श्रीजिननामग्रहणपूर्वक चैत्यवन्दनादि कृत्वा, प्रत्याख्यानं च संप्रधार्य गृहान्तर्गतः । तदा श्रीमत्यप्यागत्य प्रणामपूर्वकमित्युवाच'स्वामिन् ! अद्य रात्रौ मया सुखसुप्तया स्वप्ने पूर्वकलशो मुखे विशन् दृष्टः' । श्रेष्ठिना प्रोक्तम्-'गुणैः पूर्णस्तव पुत्रो भविष्यति । ममाप्यद्यैव शासनदेवतया एतदर्थसूचकं कथितमस्ति, अतः कोऽप्युत्तमजीवस्तव कुक्षौ अवतीर्णोऽस्ति' । इति श्रेष्ठिगिरं श्रुत्वा सा सहर्षं गर्भस्थितिं परिपालयति । पूर्णदिनेषु पुत्रो जातः । श्रेष्ठिना द्वादश दिवसान् महोत्सवं कृत्वा, स्वजनकुटुम्बादि भोजयित्वा, सर्वसमक्षं धर्मदत्त' इति नाम दत्तम्। सच क्रमेण शुक्लद्वितीयायाश्चन्द्रवत् प्रवर्धमानः सप्ताष्टवार्षिको जातः, तदा पित्रा लेखशालायां पठनाय मुक्तः । तेन च स्वकुलोचिताः सर्वा अपि कलाः शिक्षिता :। ततः पित्रा धर्मकलायां कुशलत्वहेतो : साध्वभ्यर्णे स्थापितः । यतः "श्बावत्तरिकलाकुसला, पंडियपुरिसा अपंडिया चेव । "सत्वकलाणं पवरं, जे धम्मकलं न याणन्ति" ||१|| अथ धर्मदत्तोऽनुक्रमेण यौवनं वयः प्राप्तः । ततः पित्रा श्रीदेवीनाम्नी कन्यां महेभ्यपुत्रीं परिणायितः परं १. द्वासप्ततिकलाकुशलाः, पण्डित पुरुषा अपण्डिता एव । सर्वकलानां प्रवरां ये धर्मकलां न जानन्ति ||१|| ॥३८०॥ Jain Education For Personal & Private Use Only R w .tainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy