SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ श्रीधन्य चरित्रम् ॥ ३७९ ॥ Jain Education In nating धन वपति, दीन-हीनोद्धारं च करोति ! एवं कुर्वतः षण्मासा व्यतिक्रान्ताः । ततोऽन्यदा शय्यायां सुप्तः पाश्चात्यरात्रौ प्रतिबुद्धश्चिन्तयति अहो जैनधर्मं कुर्वतोऽपि न फलसिद्धिर्हष्टा !, किमेष धर्मोऽपि निष्फलः ? इति यावद् विचिन्तयति तावता शासनदेवता प्रोचे -“रे मूढ ! लब्धं फलं मा हारय, धर्मे शङ्कां मा कुरु । यतः - ""आरंभे नत्थि दया, महिलासंगेण नासए बंभं । संकाए सम्मत्तं पव्वज्जा अत्थगहणेण ॥ " अन्यच्च - “धम्मो मङ्गलमुत्तमं नरसुरश्रीभुक्ति-मुक्तिप्रदो, धर्मः पाति पितवे वत्सलतया मातेव पुष्णाति च । धर्म: सद्गुणसंग्रह गुरुरिव स्वामीव राज्यप्रदो : धर्म स्निह्यति बन्धुवद् दिशति वा कल्पद्रुवद् वाञ्छितम् ||१|| तो हे विचारमूढ ! अन्यो दीन-हीनोद्धरणादिलौकि व्यवहारधर्मो न निष्फलो भवति, तर्हि किमु अगण्यपुण्यैः प्राप्त शक्यो लोकोत्तरः सर्वज्ञवीतरागभाषितो धर्म आराधितो निष्फलो भवेत् ?, अपितु न भवत्येव । तव गुणान्वितः पुत्रो भविष्यति, परं धर्मे शङ्काकरणात् पुत्रसौख्यं न लप्स्यसे । अतो धर्मे स्थिरमतिं कुरुष्व । इत्युक्त्वा शासनदेवी अन्तर्भूता । श्रेष्ठी तच्छ्रुत्वाऽपि हृदि हर्षितश्चिन्तयति - "यदि पुत्रो भविष्यति वयः प्राप्तो भविष्यति च तदा सौख्याऽसौख्यदायी ज्ञास्यते, तदर्वाक्कले जन्मोत्सव - लालन-पालन मन्मनवचनश्रवण 9. आरम्भे नास्ति दया महिलासंगेन नाश्यते ब्रहम । शङ्कया सम्यक्त्वं प्रव्रज्याऽर्थग्रहणेन ॥ १ ॥ For Personal & Private Use Only नवमः पल्लवः ॥ ३७९ ॥ www.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy