________________
श्रीधन्य
चरित्रम्
॥ ३७८ ॥
Jain Education Int
इति मुनिवाक्यं श्रुत्वा साहसं धृत्वाऽजश्चचाल, तद् दृष्ट्वा सर्वेऽपि लोकाश्चमत्कृताः । ततो 'विस्मितचित्तेन देवीदत्तेन साधुं प्रत्युक्तम्- 'मम च्छागचालनमन्त्रम् अर्पयतु । साधुनोक्तम्- 'किमर्थम् ?' | द्विजेनोक्तम्- 'पुनरपि ईदृशे कार्ये कार्यमायाति' । साधुराह 'भो भद्र ! किमज्ञानवशग: प्रलपसि ?' ! द्विजः प्राह- 'कथम् ?' साधुनोक्तम्- - 'अयं छागस्तव पिता उत्पन्नजातिस्मरणी मरणं ज्ञात्वा न चलति । पूर्वं हि अनेन मिथ्यात्वश्रद्धयाऽनेके छागा हताः, तेन कर्मणा स्वयमपि च्छागो जातः । अथ मद्वचने यदि तव सन्देहस्तदैनं मुत्कलं मुञ्च यथा तव पित्राऽकथितं यद् द्रव्यं त्वया न प्राप्यते तद् अयमेव दर्शयति तदा च सत्यमेतद्, नो चेद् न' । इति श्रुत्वा द्विजेन तथा कृते छागेन द्रव्यस्थानं गत्वा खुरिकया खनित्वा दर्शितम् । तदा द्विजस्य साधुवचसि प्रत्ययो जातः । ततो मिथ्यात्वं त्यक्त्वा परमश्राद्धो जातः, धर्मश्वाराधितः । इति देवशर्मकथा |
तस्माद् हे श्रीपते ! त्वमपि देवशर्मद्विजवद् मिथ्यात्वसेवनाद् भवगहने भ्रमिष्यसि " । इतिधनमित्रवचसा श्रीपतिर्मिथ्यात्वं त्यक्त्वा मित्रं प्रत्याह- मित्र ! कमुपायं कुर्वे ?' तेनोक्तम् - " वीतरागसदृशो न हि देवो, जैनधर्मसदृशो न हि धर्मः । कल्पवृक्षसदृशो न हि वृक्षः, कामधेनुसदृशी न हि धेनुः ' ॥१॥
अतः कारणात् त्वं जैनधर्मं दृढतया कुरु' । इति मित्रवचसा तेन श्राद्धधर्मोऽङ्गीकृतः । त्रिकालं जिनपूजनं करोति, सामायिकम् उभयकालं प्रतिक्रमणं च करोति, प्रत्यहं पञ्चपरमेष्ठिमहामन्त्रस्मरणं करोति, सप्तक्षेत्र्यां
१. चमत्कृतः ।
For Personal & Private Use Only
नवमः
पल्लवः
|| ३७८ ॥
www.jainelibrary.org