________________
श्रीधन्य चरित्रम्
नवमः पल्लव:
॥३७७॥
यदि कदापि मिथ्यात्वाचरणेन पुत्रो भवति तदापि देवशर्मद्विजवद् दुःखभाजनं भवति । तद्यथा
॥अथ देवशर्मकथा ॥ एकस्मिन् ग्रामे देवशर्मनाम्ना ब्राह्मणेन पुत्रार्थं पाद्रदेवताऽऽराधिता | प्रोक्ता च-'भगवति ! यदि मे पुत्रो भविष्यति तदा ते देवकुलस्य द्वारं भव्यरीत्या करिष्ये, अग्रे च अनेकवृक्षैः शोभितं तटाकं करिष्ये, प्रतिवर्षमेकच्छागस्य बलिं करिष्ये' । इत्युपयाचनाऽनन्तरं दैवात् तस्य पुत्रो जातः । हर्षपूरितहृदयेन महोत्सव कृत्वा तस्य पुत्रस्य 'देवीदत्त' इति नाम दत्तम् । ततो देवशर्मणा भक्त्या देव्या भवनम् उद्धृतम् । तदने तटाकः कारितः, तत्परितः प्राल्यां वृक्षाश्यारोपिताः, 'द्विजांश्वाहूय महती पूजांकृत्वा देव्यये छागो हतः, ब्राह्मणाश्य भोजिताः । एवं प्रतिवर्षं कुर्वतस्तस्य पुत्रो यौवनं प्राप्तः, पाणिग्रहणं च कारितम् । क्रमेणायुःक्षये गृहपुत्रादिचिन्तनाऽऽर्तध्यानो मृत्वा तत्रैव पुरेऽजो जातः । तत्पुत्रेण वर्षप्रान्ते स एव च्छागो द्रव्येण क्रीतः, स्वगृहे समानीतश्व | तस्य स्वगृहं दृष्ट्वा जातिस्मरणमुत्पन्नम् । सर्वं पूर्वस्वरूपं ज्ञातम् । ततो मनसि भीतः सन् देव्यग्रे वधाय नीयमानो 'न चलति, पुत्रेण बलेनाऽपि नीयमानो न चलति । अस्मिन् समये मार्गे गमनं कुर्वता साधुना ज्ञानेन तत्स्वरूपं ज्ञात्वा तस्य प्रतिबोधनाय एका गाथा प्रोक्ता - ___ "खडखणाविय तें छगल! ते आरोवियरुक्खइ। पवत्तिअजन्न ह अह कां बूंबुइं मुक्क
॥३७७॥
१.'मरणभयेन' अधिकः पाठः।
Jain Education
For Personal & Private Use Only
www.jainelibrary.org