SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ श्रीधन्य चरित्रम् ॥ ३७६ ॥ Jain Education ""पियमहिलामुहकमलं, वालुमुहं धूलिधूसरच्छायं । सामिमुहं सुप्पन्नं, तिन्नि वि पुण्णेहि पावन्ति " ||१|| इति विचिन्त्य प्रियां प्रति प्रोक्तम्- 'प्रिये ! मा विषीद, पुत्रविषये करिष्याम्युपक्रमम्' ततः श्रेष्ठी मन्त्र-तन्त्रयन्त्र - देवीदेवपूजनादिकमिथ्यात्वे प्रवृत्तः । आर्ताः किं न कुर्वन्ति ? । यतः " आर्ता देवान् नमस्यन्ति तपः कुर्वन्ति रोगिणः । निर्धना विनयं यान्ति क्षीणदेहाः सुशीलिनः ॥" अन्यच्च - ’इहलोइयम्मि कज्जे, सव्वारंभेण जह जणो कुणइ । ता जइ लक्रवंसेण वि, परलाए तहा सुही होइ ॥ अदा तस्य मित्रेण धनमित्रेणोक्तम्- 'मित्र ! मा मिथ्यात्वं कुरु । मिथ्यात्वकरणे हि स्वयं भवान्धकूपे पतति । अग्रेऽपि स्वपुत्रादेः पितुरनुकरणकरणाद् मिथ्यत्वं गाढतरं भवति, अतस्तेऽपि परम्परया बुडन्ति यदुक्तं च'सम्मत्तं उच्छिंदीय मिच्छत्तारोवणं कुणड़ निअकुलस्स । ते सयलो वि वंसो, दुग्गइमुहसम्मुहं नीओ || १ || * मिच्छत्त उच्छिंदीय, सम्मत्तारोवणं कुणइ निअकुलस्स । ते सयलो वि वंसो, सिद्धिपुरीसंमुहं नीओ" ॥२॥ 66 १. मयोक्तं प्र. । २. भवतीभिः प्र । ३. करोमीति प्र. १. प्रियमहिलामुखकमलं, बालमुखं धूलिधूसरच्छायम् । स्वामिमुखं सुप्रसन्नं, यपि पुण्यैः प्राप्नुवन्ति ||१|| २. सम्यक्त्वमुच्छेद्य, मिथ्यात्वारोपणं करोति निजकुलस्य । तेन सकलोऽपि वंशी, दुर्गति सम्मुखं नतः ॥ १ ॥ ३. मिथ्यात्वमुच्छेय, सम्यक्त्वारोपणं करोति निजकुलस्य । तेन सकलोऽपि वंशः सिद्धिपुरसम्मुखंनीतः ||२|| For Personal & Private Use Only नवमः पल्लवः || ३७६ ॥ www.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy