________________
श्रीधन्य
चरित्रम्
॥ ३७५ ॥
Jain Education
धनं च न भवति । तव पार्श्वे तु एतल्लक्षणानि दृश्यन्ते, न तु धनसूचकानि । अतः सत्यमेव वद । अन्यत्किञ्चिद् यद्भवेत् तदेव कथय किं वृथा प्रस्फुलितेन ?” । तदा सभ्यैरप्युक्तम्- "स्वामिना यदुक्तं तत्तथैवास्ति, परन्तु अस्यैव प्रष्टव्यम् 'केनोपायेन त्वया प्राप्तः ?' । तदाऽस्य जल्पने सर्वं विदितं भविष्यति” । एवं सभ्योक्तं श्रुत्वा | राज्ञा पृष्टम् -'भोः पुरुष ! कथय, केनोपायेन कस्य साहाय्येन च स्वर्णपुरुषोपार्जनं त्वया कृतम् ? ' । तेनोक्तम्'श्रूयतां देव !
66
अत्रैव पुरे श्रीपतिः श्रेष्ठी । तस्य गृहे लक्ष्मीर्विलसति, या हि 'कमलावासा' इति नामापि विसस्मार । तस्य श्रीमती प्रिया । तद्युक्तः श्रीपति : सुखेन परिवसति । अन्यदा सा श्रीमती स्वगृहमागतां निजसख पुत्रोल्लालनपरां वीक्ष्य निजाऽपुत्रतादुःखेन दुःखिताऽभूत् । यतः -
"अपुत्रस्य गृहं शून्यं दिशः शून्या अबान्धवाः । मूर्खस्य हृदयं शून्यं सर्वशून्या दरिद्रता ॥” ततो भोजनाऽवसरे गृहागतेन श्रेष्ठिना दुःखस्य कारणं पृष्टम् । तयापि भोजनानतरं दुःखकारणं कथितम् सोऽपि दुःखितोऽचिन्तयत् -
“१गेहं पि तं मसाणं जत्थ न दीसन्ति धूलिधूसरा निच्चं । उद्वन्ति पडन्ति रडन्ति दो तिन्नि डिभाई " ॥ १ ॥
अन्यच्च ---
१. गेहमपि तत्श्मशानं यत्र न दृश्यन्ते धूलिधूसरा नित्यम् । उत्तिष्ठन्तः पतन्तो रुदन्तो द्वौ त्रयो डिम्माः || १ ||
For Personal & Private Use Only
नवमः
पल्लवः
॥ ३७५ ॥
www.jainelibrary.org