SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ श्रीधन्य चरित्रम् ॥ ३७३ ॥ | उत्थाय खङ्गमादाय तच्छब्दानुसारेण श्मशानं जगाम । तत्रैकत्राऽग्निकुण्डमध्ये ज्वलन्तं शवनिष्पन्नं स्वर्णपुरुषं | ददर्श | अथ तं दृष्ट्वाऽवसरज्ञः कुमारः समीपस्थसरसः पानीयमानीय, स्वर्णपुरुषं सिक्त्वा, कुण्डान्निष्काश्य, अन्यत्रस्थाने भूमौ निक्षिप्य, अभिज्ञानं च कृत्वा, पुनः स्वगृहमागत्य सुखनिद्रया सुप्तः । प्रभाते संजाते तूर्याणां निनादेन बन्दिनामाशीर्वचनेन च प्रबुद्धः । ततो देव गुरुस्मरणपूर्वकं समुत्थाय, प्राभातिककृत्यानि कृत्वा, राजसभायोग्यानि वस्त्राभरणानि च यथास्थाने परिधाय, पारिपार्श्विकैः सह पितरं नन्तु राजसभायां गतः । तत्र राजसभार्हाऽभिगमसमर्थनपूर्वकं राजानं ननाम । ततः सर्वैरपि सभ्यैर्यथार्हं विनयपूर्वकं नमस्कृतः । राजा | चाऽतिस्नेहयुक्तवाक्यैः सम्मानं दत्त्वा स्वनिकटासने संस्थाप्य सुवक्षेमवार्तां कर्तुं लग्नः, तावता प्रतीहार आगत्य हस्तयोजनपूर्वकमग्रे स्थितः । तदा राज्ञा भूसंज्ञया पृष्टम् -'किमर्थमागतः स्वस्थानात् ?' प्रतीहारेण सविनयं विज्ञप्तम्- 'स्वामिन्! कश्चिद् भव्यपुरुषो मस्तके रक्षाक्षेपपूर्वकम् अतिगाढस्वरेण 'मुषितोऽस्मि, मुषितोऽस्मि' इति पूत्करोति । अतिविह्वलश्चात्रागतो मया सिहद्वारे रुद्धस्तिष्ठति । तस्य किमाज्ञा दीयते स्वामिना ? ' एवं प्रतीहारवाक्यं श्रुत्वा राज्ञा चिन्तितम्- 'व्यवहारशास्त्रेऽप्युक्तं यत् "दुर्वलानामनाथानां बाल-वृद्ध-तपस्विनाम् । पिशुनैः परिभूतानां सर्वेषां पार्थिवो गतिः” ॥१ ॥ इति हेतोर्यः कोऽप्यतिदुःखसङ्कटे पतितः स ममाऽभ्यर्णमेवागच्छति, नाऽन्यत्र कुत्रापि' । इति ध्यात्वा भूसंज्ञया प्रतीहार आज्ञापितः । प्रतीहारेणाऽप्याज्ञां प्राप्य सिंहद्वारस्थितपुरुषस्योक्तम् -'सुखेन गच्छतु भवान' । | सोऽप्यादेशं लब्ध्वा राजसभान्तरागत्य नमस्कारपूर्वकं पुनस्तथैव पूत्कर्तुं लग्नः । तदा राज्ञोक्तम्- 'भो दुःखित ! Jain Education International For Personal & Private Use Only नवमः पल्लवः | ॥ ३७३ ॥ www.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy