SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ श्रीधन्य चरित्रम् | नवमः पल्लव: ॥३७२॥ क्षिप्त्वा क्लेशयन्ति । सर्वमपि कर्मक्लेशविचित्रताप्रबन्धं श्रीजिनो वेत्ति, परं वक्तुं सोऽपि न प्रवीणः । तस्मात् | सहजसुखार्थिना प्रथमं श्रीजिनागमाभ्यासं कृत्वा, कर्मणां बन्धो-दयादिवैचित्र्यं सम्यग्रीत्योपलक्षणीयम् । यत एकमेवानवद्वारं पुण्य-पापरूपं सेवामानाः फलवैचित्र्यं प्राप्नुवन्ति; अध्यवसायानां बलवत्वात्, योगस्थानानां वीर्यस्थानानां चाऽसङ्ख्यातत्वात् सम-विषमस्वरूपेण विचित्रविपाको भवति । समग्रा अपि संसारवर्तिनो जीवाः सुखं, दुःखं वाऽनुभवन्ति, तस्य दाता कर्मैव, नान्यः कोऽपि | ये हि अज्ञातकर्मस्वरूपा जीवा अन्यस्य कस्यापि सुख-दुःखदातृत्वं श्रद्दधति तद् मिथ्यात्वा-ऽज्ञानविलसितम्, तैश्व किश्चिदपि धर्मो नोपलक्षितः, अनादिभ्रम एवायम् । तस्माद् धर्मदत्तवत् प्रथमं कर्मणः स्वरूपं ज्ञात्वा पश्चाद् यद् आत्महितं तदेवानुसतव्यम्" । स्वामिना इत्युक्ते सभ्यैः पृष्टम्-'स्वामिन् ! कीदृशो धर्मदत्तः, येन कर्मकदर्थनां ज्ञात्वा स्वहितमाचरितम् ?' | तदा स्वाम्याह || अथ धर्मदत्तकथा | ___ "इहैव भरतक्षेत्रे काश्मीराभिधो देशः । तत्र चन्द्रपुरं नाम नगरम् । तत्र न्यायैकनिष्ठो यशोधवलो नाम राजा राज्यं पालयति स्म । तस्य यशोमती देवी। तत्कुक्षिसमुद्भूतः प्रभूतगुणनिस्तन्द्रश्चन्द्रधवलो नाम कुमारः। स च सर्वेषु शास्त्रेषुपारीण'ऐदम्पर्यग्राही सर्वासु धनुर्वेदादिशस्त्रकलासुयोजितश्रमो, विशेषतश्व शकुनशास्त्रेषु निपुणो बभूव । अन्यदा रात्रौ स्वकीयावासौपरितनभूमौ सुखनिद्रया सुप्तः । तत्र पाश्चात्यरात्रौ शिवाशब्दं शुश्राव । रशिवारुतकुशलत्वाद हदि विचारं कुर्वता हार्दै लब्धं यत्-'एषा शिवा मम महान्तं लाभं वक्ति'। इति हृदिध्यात्वा १.रहस्यज्ञाता २. श्रृंगाली शब्दम्। ॥३७२॥ Jain Education Intematonal For Personal & Private Use Only www.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy