SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ नवमः पल्लवः प्राणव्ययेनापि पातिाः सुखमात्रप्रापका नैव भवन्ति, प्रत्युत शोचकारका भवन्ति । यथा सुभूमश्चक्रवर्त्यपि श्रीधन्य: पापोदये जाते समुद्रे बुडितः, यः षट्खण्डभोक्ता, चतुर्दशरत्नानां पतिः, नवसेवधिस्वामी, द्विसहस्रयक्षेशमात्रेण चरित्रम् कार्यनिष्पादकः । यस्य एकैकभुजे चत्वारिशल्लक्षाऽष्टापदबलम् । यद् हस्तगतं कृत्वा स्थले इव जलेऽपि |T पादविहारेण गम्यते, अन्यत्तु हस्तगतं जलं द्विधा करोति, अन्यत्तु हस्तगतं कृत्वा आकाशे पक्षिवद् उड्डीयते, अन्यत्तु भूम्यन्तः प्रवेश्य ईप्सितस्थले निस्सारयति, अन्यत्तु मत्स्यवद् जलगतिं कारयति; एवंविधानि अनेकसहस्राणि विविधमहिमानि रत्नौषध्यादीनि मन्त्र-यन्त्र-तन्त्राणि च यस्य भाण्डागारेऽवर्तन्त | यस्य ॥३७१॥ दक्षिणोत्तरश्रेणिनायकाः साधितगौरी-गान्धारी-प्रज्ञप्त्यादिमहाविद्या विमायानचारकाः सदा सेवकवद् आदेशमात्रेण कार्यनिष्पादका आसन् । यस्य पार्श्वेजलगतिप्रवणा अनेकहयाः, यानपात्राऽधिकजलतरणसमर्थं च चर्मरत्नमासीत् । यः सदा पञ्चविंशतिसहस्रसुरैरसेरसेव्यत । एतावद्ऋद्धि-बलगर्वितोऽपि पापोदये जाते समुद्रब्रुडितः सुभूमः । अस्यैव पूर्वं पुण्योदयवेलायामतर्कितम् अनाहूतं चक्रं भूत्वा हस्ते स्थितं, येन समस्तं भूतलं निर्जितम्; तदेव पापोदयावस्थायां विद्यमानमपि न कार्यसाधनाय प्रगुणं जातम् । तथा वासुदेवप्रश्ने श्रीनेमिनोक्तम्-'जराकुमारहस्तेन तव मरणम्' । तच्छुत्वाऽतिदूनो जराकुमारो राज्यसुखं त्यक्त्वा वने गतः । परं पापोदयबलेन तेन बाणेन हतो हरिः । अतो यत् कुटुम्बस्योपरि वात्सल्यं तद्व्यर्थम् तदर्थं प्रयासश्व निष्फल:। अनादिकालेन मोहभूपस्य वृद्धभ्राता कर्मपरिणामः, स च नटहस्तगतमर्कटवद् अहर्निशं नर्तयति, न क्षणमात्रं निवृत्तिं ददाति । तस्य साहाय्यकारका मोह-मिथ्यात्वा-ऽज्ञानादयो विविधबन्धो--दयो-दीरणा'पअरेषु जीवन १. दिसकीलक कष्टप 00000 ॥३७१॥ in Education remational For Personal & Private Use Only www.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy