________________
श्रीधन्य
चरित्रम्
॥ ३७० ॥
श्रुत्वा केकीव मुमुदे । ततः सहर्षं भक्तिसम्भारसंभृतः सदलङ्काराऽलङ्कृत; सारसारपरिवारं गृहीत्वा | सुखासनाधिरूढः श्रीमद्वीरजिनं नन्तु वैभारगिरिं जगाम । अथ श्रीवीरदर्शने जाते सुखासनादुत्तीर्य, पञ्चाभिगमपूर्वकं तिस्रः प्रदक्षिणा दत्त्वा पञ्चाङ्गप्रणिपातेन नत्वा यथोचितस्थाने देशनापिपासितो भूत्वा स्थितः । ततः श्रीवीरेण संसारवासनाक्लेशनाशिनी आक्षेपण्यादिभेदचतुष्कगर्भिता देशना प्रारेभे । तद्यथा-" आदित्यस्य गतागतै रहरहः संक्षीयते जीवितं, व्यापारैर्बहुकार्यभारगुरुभिः कालोऽपि न ज्ञायते । दृष्ट्वा जनम जरा- विपत्ति-मरणं त्रासश्च नोत्पद्यते, पीत्वा मोहमयीं प्रमादमदिरामुन्मत्त भूतं जगत्" ॥१॥
'अनादिशत्रुपञ्चप्रमादवशगो जीवस्तत्त्वाऽतत्त्वं किमपि न वेत्ति 'अन्यान्यगतितः समागत्य एकगृहे समुत्पन्नान् अज्ञानवशगो जीवः स्वीयान् मन्यते, एते मदीया हितकारका इति जानाति । तेषां पोषणाय अष्टादश पापस्थानानि सेवते । तदुःखेन दुःखितः, तत्सुखेन च सुखितः । एते मम पुत्र- बान्धवादय आयति सुखदायका | भविष्यन्ति' इति श्रद्दधानः प्रतिक्षणं तेषां तृप्तिं कुर्वन् कालं निर्गमयति, कर्मणां दीर्घस्थितिं च पोषयति, परन्तु सुख-दुःख-प्रापणं स्वकृतपुण्य-पापोदयबलेन भवति । चेत् पुण्योदयस्तदा सर्वेऽज्ञाता अनुपलक्षिता | असम्भवनीया अतर्किता एवागत्य सेवां कुर्वन्ति, पापोदयश्चेत् तदा बहुदिनपरिचिता बहुदिनपोषिता
9. स्वस्वकर्मोदयवशेन इत्यधिकः पाठः प्र. ।
Jain Education International
"
For Personal & Private Use Only
नवमः
पल्लवः
| ॥ ३७० ॥
www.jainelibrary.org