SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ श्रीधन्य नवमः पल्लव: चरित्रम ॥३६॥ अदृष्टपूर्वाणि उपायने कृत्वा नृपस्तोषितः । राज्ञापि भद्रायै चित्तप्रसत्योक्तम्--'भद्रे ! तव लीलापतिः | सुतोऽतियत्नतो रक्षणीयः । मत्सदृशं कार्यं चेद् भवेत् तदा सुखेन वाच्यं नान्तरं गण्यम् । मद्गृहं स्वगृहमिव सुतोऽतियत्नतार गण्यम्, त्वया सार्धं मम सेव्यसेवकव्यवहारो नास्ति । समग्रमपि राज्यम् आत्मीयमेव गण्यं, कयापि रीत्या शङ्का न विधेया | शालिभद्रस्तु मम देश-नगर-राज्यादीनां मण्डनरूपोऽस्ति, अतो ममातीव प्राणादप्यधिकोऽस्ति'। इति बहुमानं कृत्वा राजा निजधाम जगाम | अथ शालिभद्रो शय्यायां मुखं गल्ले दत्त्वा उदासीनमनसा चिन्तयति-"मया हि पूर्वजन्मनि सुकृतं पूर्णं न | कृतम्, श्रीमज्जिनाज्ञा च पूर्णभावेन नाराधिता; तेन इहभवे विषमिश्रितमिष्टान्नमिव पराधीनं सुखं संप्राप्तम् । परतन्त्रभावेन यत्सुखं तदुःखमेव ज्ञेयम् । मया हि पूर्वं मुक्तिपदं श्रीमजिनं विनाऽन्योऽपि स्वामी कोऽपि ज्ञातो नासीत्, सोऽद्य ज्ञातः | पराधीनवृत्त्या जीवनं निरर्थकम्; अतोऽधुनाऽहं स्वाधीनचेतनां कृत्वा, स्वाधीनसुखसिद्धयर्थं श्रीमज्जिनाज्ञामग्रतः कृत्वा, गुरुचरणोपासनपूर्वकं श्रीमद्रत्नत्रयप्रापकं चारित्रमाराधयामि, येन स्वाधीनं स्वरूपमतिसौख्यं प्राप्यते । अतः परं मयेदमेव करणीयं, न विस्मरणीयम् । न विश्वसनीयोऽमृतमुखविष- घटतुल्यो रतिराक्षसः । इदं हि सर्वमिन्द्रजालं, तत्र को विश्वास; ?" | इति भावनां भावयति! अस्मिन्नवसरे देवदुन्दुभिनिनादः श्रुतः । तं श्रुत्वा पृष्टं सेवकजनानाम्-'भोः सेवकाः! देवदुन्दुभिरवः कुत्र संजायते ?' | तैरुक्तम्-'स्वामिन् ! अद्य भव्यजीवानां प्रबलभाग्योदयेन वैभारगिरौ मोहतिमिरभास्करः श्रीवीरः समवसृतः , तेन देवैर्दिव्यभेरी वादिता' । अथ शालिपुण्यपूतं तद् वीरजिनागमनं श्रुत्वा धनगर्जितं ॥३६९॥ Jain Education in For Personal & Private Use Only Kn.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy