SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ श्रीधन्य चरित्रम् नवमः पल्लवः ॥३६८॥ भद्रया स्वनैपुण्येन ज्ञातं यद् ‘राज्ञः किमपि मुद्रादिकं गतं दृश्यते, | ततो भूसंज्ञया दास्यै ज्ञापितम्-'जलयन्त्रेण भूषणान्याकर्षय, यथा तत् प्रकटितं भवेत्, दास्या तथा कृते नागरिकमहेभ्याऽभ्यर्णे आगतं निःस्वं ग्राम्यमिव अलङ्कारोचये मुद्रारत्नं विलोक्य दासी प्रति महीपः प्राह-एते सदलङ्काराः कस्य ?' | दास्याह-प्रभो ! नः प्रभोः शालिभद्रस्य प्रतिदिनत्यक्तनिर्माल्यमिदम्' । तच्छ्रुत्वा विस्मयमापन्नो राजा चिन्तयति-'अहो ! अनिर्वचनीया पुण्यगति :, दृश्यतां स्वामि-सेवकयोः पुण्यान्तरम् । स्वस्वाऽध्यवसायप्रबलतावैचित्र्यकृतधर्मस्य विचित्रं फलमिति जैनी गीमिथ्या न भवति' | ततो निजां मुद्रिकां गृहीत्वा, शुद्धवस्राणि परिधाय पूर्वरचिताऽऽसनादिसंस्कृते रमणीयभोजनमण्डपे आसनमलइकुरुते स्म । ततो- गोभद्रगीर्वाणदत्तै विविधवस्तुभिर्निष्णातैः सूपकारैः सञ्जिता अष्टादशभेदव्याकुला नव्या च रसवती सपरिवाराय राज्ञे भद्रया परिवेषिता । ततो राजादयः सर्वेऽपि रसवतीमास्वादयन्तोऽभिनवाकारां सुसंस्कृतां विविधरचनाविशेषाम् अनास्वादितपूर्वां च दृष्ट्वा विस्मितहृदयाः ‘किमिदं किमिदम् ?' इति सूपकारान् पुनः पुनः पृच्छां कुर्वन्ति । भुआनै रसवत्यास्वादश्लाघं च कुर्वद्भिस्तैर्यथेच्छम् उदराणि भूतानि । भुक्त्वोस्थिताश्य ते सर्वेऽपि पुनरास्थाने स्थिता। ततो रत्नजटिता स्वर्णचङ्गेरी पञ्चसौगन्धिकताम्बूलबीटकानि भृत्वाऽये मुक्ता | ततो दिव्याऽत्तरादीनाम् आच्छोटनं कृत्वा विविधवस्त्राभाणैः सर्वेऽपि सत्कृताः । राज्ञश्य विविधदेशोद्भवानि प्रवराणि वस्त्राणि, रत्नैः | खचितानि विविधान्याभूषणानि, अनेकानि च दिव्यरत्नानि भृत्वा स्थाला उपायनीकृताः। तथाऽनेकानि अश्वरथादीनि, एला -लवङ्ग-जातिफलादीनि स्वादिमानि, द्राक्षा-ऽक्षोटक-बदाम-पिस्तादीनि च स्वादिमद्रव्याणि ॥३६८॥ Jain Education For Personal & Private Use Only www.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy